Enter your Email Address to subscribe to our newsletters

– २९ जुलाईमासतः २० फरवरीमासपर्यन्तं अभियानं चलिष्यति, विविधकार्यक्रमाः आयोजयिष्यन्ते
अयोध्यानगरम्, २५ जुलाईमासः (हि.स.)। सन्त-शिरोमणेः गुरु-रविदास-महाराजस्य ६५०तमी-जयन्त्याः उपलक्ष्ये भारतीय-जनतापक्षेण ‘समरसता-सङ्कल्प-अभियानस्य’ अन्तर्गतं विविध-कार्यक्रमाः आयोजयिष्यन्ते। एतत् अभियानं २९ जुलाईमासतः प्रारभ्य गुरु-रविदास-जयन्ती-दिनं यावत् प्रवर्तिष्यते। अभियानस्य रूपरेखा-निर्धारणार्थं शनिवासरे महानगर-कार्यालये सहादत-गञ्ज-इत्यत्र कार्यशाला आयोजिता। कार्यशालायाः अध्यक्षतां भाजपामहानगर-अध्यक्षः कमलेश-श्रीवास्तवः अकरोत्।
कार्यशालायां अभियानस्य विविधचरणानां कार्यक्रमाणां च विस्तृता सूचना प्रदत्ता। अस्याः योजनायाः अन्तर्गतं २९ जुलाईमासे गुरु-रविदास-महाराज-कलश-वन्दनम् तथा समरसता-दीप-अभियानस्य शुभारम्भः भविष्यति। एतदतिरिक्तं सन्त-सम्पर्क-अभियानम्, समरसता-कार्यक्रमाः, युवा-छात्रावास-सम्पर्क-अभियानं तथा अन्ये सामाजिक-जनजागरण-कार्यक्रमाः अपि आयोजयिष्यन्ते। एतैः कार्यक्रमैः समाजस्य विभिन्नवर्गेषु समरसता, सामाजिक-सौहार्दं तथा सन्त-रविदासस्य विचाराः जन-जनपर्यन्तं प्रसारयितुं प्रयत्नः भविष्यति।
महानगराध्यक्षः कमलेश-श्रीवास्तवः अवदत् यत् सन्त-गुरु-रविदास-महाराजः स्वजीवनेन स्ववाण्या च सामाजिक-समरसतायाः, समानतायाः, मानवतायाश्च सन्देशं प्रदत्तवान्। तस्य विचाराः अद्यापि समाजं एकतायाः सौहार्दस्य च दिशि प्रेरयन्ति। सः अवदत् यत् भारतीयजनतापक्षः गुरु-रविदास-महाराजस्य आदर्शान् जन-जनपर्यन्तं प्रसारयितुं समर्पितः अस्ति।
अभियानस्य सञ्चालनार्थं महामन्त्री शैलेन्द्र-कोरी अभियान-संयोजकरूपेण नियुक्तः। काशीराम-रावतः, दिनेश-कन्नौजिया, वरुण-चौधरी, अभिषेक-सागरः च सह-संयोजकत्वेन नियुक्ताः। कार्यशालायां महामन्त्री परमानन्द-मिश्रः, तिलकराम-मौर्यः, अरविन्द-सिंहः, बाल-कृष्ण-वैश्यः, हरभजन-गौडः, प्रदीप-यादवः, सर्वज्ञ-सिंहः, अशोक-द्विवेदी, रीना-द्विवेदी, गरिमा-मौर्या, रवि-सिंहः, शिवम्-शुक्लः, मण्डलाध्यक्षाः मुकेश-तिवारी, कपिलदेव-वर्मा, हेमन्त-जायसवालः, सचिन-सरीनः तथा अन्ये पदाधिकारीण: उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Divya Ranjan