'आदिपुरुषः' मदीयस्य जीवनस्य सर्वतः महादोषः, देशात् क्षमां याचे तदर्थम् : मनोजमुंतशिरः
आदिपुरुष इति चलच्चित्रस्य प्रदर्शनात् त्रिवर्षाणामनन्तरं तस्य संवादलेखकः मनोजमुन्तशिर प्रथमवारं स्वप्रतिक्रियाम् उन्मुक्ततया व्यक्तवान्। समीपवर्तिनि एकस्मिन् साक्षात्कारे तेन एतत् चलच्चित्रं स्वजीवनस्य महत्तमा भूलिः इति स्वीकृतम्। तेन अङ्गीकृतं यत
मनोज मुंतशिर - फोटो सोर्स एक्स


आदिपुरुष इति चलच्चित्रस्य प्रदर्शनात् त्रिवर्षाणामनन्तरं तस्य संवादलेखकः मनोजमुन्तशिर प्रथमवारं स्वप्रतिक्रियाम् उन्मुक्ततया व्यक्तवान्।

समीपवर्तिनि एकस्मिन् साक्षात्कारे तेन एतत् चलच्चित्रं स्वजीवनस्य महत्तमा भूलिः इति स्वीकृतम्। तेन अङ्गीकृतं यत् अस्य संवादानां चलच्चित्रस्य च समर्थनं कर्तुं तस्य महती त्रुटिः अभवत्।

तेन उक्तं यत् चलच्चित्रम् अधिकृत्य यः विवादः अभवत् तथा येन प्रकारेण प्रेक्षकाणां भावनाः आहताः अभवन् तस्मिन् विषये तस्मै गाढः खेदः अस्ति। मनोजमुन्तशिर उक्तवान् यत् आदिपुरुष इति चलच्चित्रं मम जीवनस्य महत्तमा भूलिः आसीत् तथा तस्य समर्थनं ततोपि महत्तरा भूलिः आसीत्। यत्किमपि अभवत् तस्य कृते अहं अस्य देशस्य जनान् करबद्धः क्षमां याचे।

मनोजमुन्तशिर अवदत् यत् प्रारम्भे तस्य अभिप्रायः आसीत् यत् चलच्चित्रम् अधिकृत्य प्रवर्तमाना आलोचना कालेन सह शान्ता भविष्यति। किन्तु केवलं द्विदिनयोः अन्तरे एव तस्मै स्वस्य त्रुटेः बोधः अभवत्। तेन उक्तं यत् अद्य यदा सः अतीतं प्रति पश्यति तदा स्वलिखितेषु संवादेषु तस्मै लज्जा अनुभूयते। तस्य मते अद्यापि सः न अवगच्छति यत् तेन तस्मिन् समये तादृशाः संवादाः कथं लिखिताः। तेन अङ्गीकृतं यत् प्रेक्षकाणां रोषः सर्वथा उचितः आसीत् तथा तस्याः आलोचनायाः माध्यमेन तेन बहु शिक्षितम्।

ओमराउतेन निर्देशितम् आदिपुरुष इति चलच्चित्रं जून २०२३ तमे मासि प्रदर्शितम् आसीत्। प्रभासः कृतिसैनन सैफअलीखान च अभिनीतम् एतत् चलच्चित्रं रामायणम् आधृत्य निर्मितम् आसीत्। किन्तु अस्य संवादानाम् भगवान् हनुमतः रावणस्य च चित्रणम् अधिकृत्य देशव्यापी विवादः उत्पन्नः। विवादस्य वृद्धेः अनन्तरं निर्मातृभिः केषाञ्चन संवादानां परिवर्तनम् अपि कृतम् किन्तु प्रेक्षकाणां असन्तोषः न न्यूनीभूतः। समीपे काले चलच्चित्रे सीतायाः भूमिकां निर्वहन्ती कृतिसैनन अपि उक्तवती यत् चलच्चित्राय प्राप्तया आलोचनया तस्याः गाढं दुःखम् अभवत्।

Hindusthan Samachar / Dheeraj Maithani