Enter your Email Address to subscribe to our newsletters

बलियानगरम्, २५ जुलाईमासः (हि.स.)। जननायक-चन्द्रशेखर-विश्वविद्यालयस्य अष्टमः दीक्षान्तसमारोहः २९ जुलाईमासे भविष्यति। विश्वविद्यालयस्य कुलाधिपति: राज्यपालश्च आनन्दीबेन-पटेलः समारोहस्य अध्यक्षतां करिष्यति। भारतीय-कृषि-अनुसन्धान-संस्थानस्य पूर्व-निदेशकः पद्मश्री डॉ. अशोककुमार-सिंहः मुख्यातिथिरूपेण उपस्थितः भविष्यति।
विश्वविद्यालय-परिसरे शनिवासरे आयोजितायां पत्रकार-वार्तायां कुलपतिः प्रो. नरेन्द्र-शुक्लः अवदत् यत् दीक्षान्त-समारोहे मन्त्रिमण्डलमन्त्री योगेन्द्र-उपाध्यायः राज्यमन्त्री रजनी-तिवारी च विशिष्टातिथिरूपेण उपस्थितौ भविष्यतः। अस्मिन् अवसरे स्नातकस्तरस्य १३,२६१ विद्यार्थिभ्यः, येषु ८,०९३ छात्र्यः ५,१६८ छात्राश्च सन्ति, तथा परास्नातकस्तरस्य ५,९३६ विद्यार्थिभ्यः, येषु ३,७६८ छात्र्यः २,१६८ छात्राश्च सन्ति, उपाधयः प्रदास्यन्ते। उपाधिप्राप्तानां संख्या १९,१९७ अस्ति। एतेषु पीएचडी-स्तरस्य ३० शोधार्थिभ्यः अपि उपाधयः प्रदास्यन्ते।
अस्मिन् अवसरे स्वस्वकक्षायां प्रथमस्थानं प्राप्तान् विद्यार्थिनः स्वर्णपदकैः सम्मानिताः भविष्यन्ति। ४४ स्वर्णपदकविजेतृषु ३५ छात्र्यः ९ छात्राश्च सन्ति। एमएससी-रसायनविज्ञानस्य छात्रा नन्दिनी-वर्मा विश्वविद्यालये सर्वोच्चाङ्कप्राप्तेः फल-स्वरूपं कुलाधिपतिमहोदयया स्वर्ण-पदकेन सम्मानिता भविष्यति। अस्मिन् वर्षे प्रथमवारं डॉ. काशीप्रसाद-जायसवाल-स्मृति-स्वर्णपदकम् अपि प्रदास्यते, यत् प्राचीन-इतिहास-संस्कृति-पुरातत्त्व-विभागस्य छात्रायै विनीता-सिंह-इत्ययै प्रदास्यते।
दीक्षान्तसमारोहस्य महत्त्वं दृष्ट्वा कुलाधिपतिमहोदयाया: निर्देशानुसारं दीक्षान्तात् पूर्वं दीक्षोत्सवः आयोजितः। अस्य अन्तर्गतं विश्वविद्यालय-परिसरे, प्राथमिक-विद्यालयेषु, आङ्गनवाडी-केन्द्रेषु च काव्यलेखन-निबन्ध-चित्रकला-प्रभृतयः विविधाः प्रतियोगिताः आयोजिताः। प्राथमिकविद्यालयानां विजेतारः अस्मिन् अवसरे कुलाधिपति-महोदयया सम्मानिताः भविष्यन्ति। कुलाधिपया आङ्गनवाडी-केन्द्राणां कृते २०० किट्-वितरणमपि करिष्यते, येषु १०० किट् जनपद-प्रशासनेन तथा १०० किट् विश्वविद्यालयेन प्रदास्यन्ते।
कुलाधिपतिमहोदयायाः विशेषं ध्यानं बालिका-महिला-स्वास्थ्यस्य सशक्ती-करणं प्रति वर्तते। अतः अस्मिन् अवसरे किशोरीभ्यः गर्भाशयग्रीवा-कर्कटरोग-निवारणार्थम् एचपीवी-टीकाकरणम् अपि भविष्यति। टीकाकरणानन्तरं कुलाधि-पतिमहोदया ताभ्यः प्रमाणपत्राणि अपि प्रदास्यति।
Hindusthan Samachar / Divya Ranjan