कांग्रेस सर्वकारस्य विरुद्धम् अगस्ततः प्रदेशव्यापी जनआंदोलन शुभारप्स्यते भाजपादलेन : डॉ. राजीव बिंदलः
शिमला, 25 जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य हिमाचलप्रदेशाध्यक्षः डॉ. राजीवबिन्दलः अवदत् यत् मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खोः नेतृत्वयुक्तायाः काङ्ग्रेससर्वकारस्य नीतिनां विरोधार्थं भारतीयजनतापक्षः अगस्तमासात् सम्पूर्णप्रदेशे चरणबद्धं जनान्
डॉ. राजीव बिंदल


शिमला, 25 जुलाईमासः (हि.स.)।

भारतीयजनतापक्षस्य हिमाचलप्रदेशाध्यक्षः डॉ. राजीवबिन्दलः अवदत् यत् मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खोः नेतृत्वयुक्तायाः काङ्ग्रेससर्वकारस्य नीतिनां विरोधार्थं भारतीयजनतापक्षः अगस्तमासात् सम्पूर्णप्रदेशे चरणबद्धं जनान्दोलनम् आरभिष्यति। तेन उक्तं यत् प्रदेशमुख्यालये दीपकमले आयोजितायां भारतीयजनतापक्षस्य विशेषोपवेशने एषः निर्णयः गृहीतः।

डॉ. राजीवबिन्दलः अवदत् यत् आन्दोलनस्य आरम्भः मण्डलस्तरात् भविष्यति। ततः परं तत् विधानसभास्तरं, जनपदस्तरं, प्रदेशस्तरं च यावत् विस्तारितं भविष्यति। तेन अभिहितं यत् काङ्ग्रेससर्वकारेण निर्वाचनात् पूर्वं जनतायै प्रदत्तानि वचनानि न परिपालितानि, अतः प्रदेशस्य जनाः स्वान् वञ्चितान् अनुभवन्ति।

तेन आरोपः कृतः यत् सर्वकारेण प्रदेशस्य अनेके विद्यालयाः, महाविद्यालयाः, प्राथमिकस्वास्थ्यकेन्द्राणि, शासकीयकार्यालयानि, पशुचिकित्सालयाः तथा अन्यसंस्थानानि निरुद्धानि, येन विशेषतः ग्रामीणक्षेत्रेषु निवसन्तः जनाः बहून् क्लेशान् अनुभवन्ति। भारतीयजनतापक्षः एतानि विषयाणि जनसामान्यस्य मध्ये स्थापयित्वा सर्वकारात् उत्तरं याचिष्यते।

प्रदेशाध्यक्षः अवदत् यत् प्रदेशस्य मार्गाः दुर्दशां गताः सन्ति तथा विद्युत् जलयोः वर्धमानव्ययेन सामान्यजनानाम् आर्थिकभारः अपि वर्धितः। तेन आरोपः कृतः यत् कृषकेभ्यः, उद्यानपालकेभ्यः, महिलाभ्यः, युवभ्यः, कर्मचारिभ्यश्च प्रदत्तानि वचनानि अद्यापि न परिपालितानि। तस्य मते काङ्ग्रेसपक्षेण निर्वाचनकाले बह्व्यः प्रत्याभूतयः प्रदत्ताः, किन्तु ताः व्यवहारतः न कार्यान्विताः।

डॉ. राजीवबिन्दलः अवदत् यत् भारतीयजनतापक्षः ग्रामे ग्रामे गृहे गृहे च गत्वा जनान् सर्वकारस्य कथितजनविरोधिनीतिभिः अवगतान् करिष्यति। मण्डलस्तरात् आरभ्यमाणम् इदम् आन्दोलनं प्रदेशस्य सर्वेषु विधानसभाक्षेत्रेषु जनपदेषु च प्रसरिष्यति इति तेन उक्तम्।

तेन उक्तं यत् भारतीयजनतापक्षः जनहितसम्बद्धानां विषयाणां कृते लोकतान्त्रिकरीत्या संघर्षं निरन्तरं करिष्यति। तस्य मते काङ्ग्रेससर्वकारः सत्तातः अपसारितः न भवति तावत् पर्यन्तम् इदम् आन्दोलनं प्रवर्तिष्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani