सङ्घटनस्य रीतिनीत्यनुसारं कार्यं कुर्वन्तः जनापेक्षासु सफलाः भवन्तु जनप्रतिनिधयः - नितिन-नवीनः
– भाजपाविधानमण्डलदलस्य सभायां सर्वकार-सङ्गठनयोः समन्वयस्य उपरि विशेषबलम्, शतदिवसीय-कार्याणां समीक्षा कृता पटनानगरम्, २५ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य विधानमण्डलदलस्य सभा शनिवासरे प्रदेशकार्यालयस्थिते अटल-सभागारे आयोजिता। अस्यां सभायां भाजपा
बैठक में जनप्रतिनिधि


नितिन नवीन


– भाजपाविधानमण्डलदलस्य सभायां सर्वकार-सङ्गठनयोः समन्वयस्य उपरि विशेषबलम्, शतदिवसीय-कार्याणां समीक्षा कृता

पटनानगरम्, २५ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य विधानमण्डलदलस्य सभा शनिवासरे प्रदेशकार्यालयस्थिते अटल-सभागारे आयोजिता। अस्यां सभायां भाजपापक्षस्य राष्ट्रियाध्यक्षः नितिन-नवीनः, मुख्यमन्त्री सम्राट-चौधरी, प्रदेशाध्यक्षः संजय-सरावगी तथा पक्षस्य वरिष्ठनेतारः सहभागिन: अभवन्। सभायां सर्वकारस्य सङ्घटनस्य च मध्ये उत्तम-समन्वयस्य स्थापनया जनहित-विकासकार्याणां च अधिकवेगेन प्रवर्तन-विषये विस्तरेण चर्चा अभवत्।

सभायाः प्रारम्भः प्रदेशाध्यक्षेन संजय-सरावगिणा राष्ट्रियाध्यक्षस्य नितिन-नवीनस्य पुष्पगुच्छम् अङ्गवस्त्रं च समर्प्य स्वागतं कृत्वा अभवत्। अस्मिन् अवसरे मुख्यमन्त्रिणः सम्राट-चौधरिणः नेतृत्वे राज्यसर्वकारस्य शतदिनानि पूर्णानि जातानि इति निमित्तेन तस्मै अभिनन्दनं शुभकामनाश्च प्रदत्ताः।

सभायां मुख्यमन्त्रिणः सम्राट-चौधरिणः नेतृत्वे विगत-शतदिवसेषु जनहिते, सुशासने, विकासे च सर्वकारेण कृतकार्याणां विस्तृता समीक्षा कृता। नेतारः अवदन् यत् राज्यसर्वकारेण उत्तरदायित्वपूर्णेन, संवेदनशीलेन च प्रशासनेन जनविश्वासः सुदृढीकृतः, विकासयोजनानां प्रभावी कार्यान्वयनं च सर्वोच्चप्राथमिकतया स्वीकृतम्।

सभायां प्रधानमन्त्रिण: नरेन्द्रमोदिनः मार्गदर्शने विकसित-बिहारस्य सङ्कल्पस्य साकारणे प्रतिबद्धता पुनः व्यक्ता। नेतारः अवदन् यत् सर्वकारस्य सङ्घटनस्य च मध्ये निरन्तरसंवादेन, उत्तमसमन्वयेन, जनसहभागितया च विकासस्य गतिः अधिकं वर्धिष्यते।

राष्ट्रियाध्यक्षः नितिन-नवीनः जन-प्रतिनिधिभ्यः सङ्घटनस्य रीतिनीत्य-नुसारं कार्यं कर्तुं जनतायाः अपेक्षासु च सफलान् भवितुम् आह्वानम् अकरोत्। तेन उक्तं यत् भाजपापक्षस्य परिचयः सेवा, सुशासनं, राष्ट्रहिते समर्पणं चेति अस्ति। सर्वकारस्य सङ्गठनस्य च उत्तम-सामञ्जस्येन एव विकासलक्ष्याणि प्रभावकरूपेण साधयितुं शक्यन्ते।

तेन कार्यकर्तृभ्यः जनप्रतिनिधिभ्यश्च जनमध्येषु निरन्तरं सक्रियान् भवितुं सर्वकारस्य जनकल्याणकारी-योजनानां लाभं अन्तिम-जनपर्यन्तं प्रापयितुं च आग्रहः कृतः। तथा च आगामि-राजनैतिक-साङ्गठनिक-कार्यक्रमाणां जनसम्पर्क-अभियानानां च अधिक-प्रभावीकरणविषये अपि चर्चा अभवत्। सर्वेभ्यः जन-प्रतिनिधिभ्यः जनतया सह निरन्तरसंवादं स्थापयितुं सर्वकारस्य उपलब्धीः जन-जनपर्यन्तं प्रापयितुं च आह्वानं कृतम्।

सभायां केन्द्रीयमन्त्री गिरिराज-सिंहः, केन्द्रीयमन्त्री नित्यानन्द-रायः, प्रदेश-सङ्गठन-महामन्त्री भीखूभाई-दाल-सनिया इत्येतै: सह भाजपापक्षस्य सर्वे विधायकाः विधानपार्षदाश्च उपस्थिताः आसन्।

/ अंशु गुप्ता