Enter your Email Address to subscribe to our newsletters

देहरादूनम्, २५ जुलाईमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी कारगिल-विजय-दिवसोपलक्ष्ये शनिवासरे चीड़बाग-स्थिते शौर्य-स्थले गढ़ीकैण्ट-इत्यत्र आयोजितां ‘कारगिल-वीरेभ्यः धावन-प्रतियोगिताम्’ हरित-ध्वजं प्रदर्श्य प्रस्थापितवान्। अस्मिन् अवसरे सः शौर्य-स्थले पुष्पचक्रम् अर्पयित्वा कारगिल-युद्धस्य अमर-बलिदानिभ्यः श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्री अवदत् यत् कारगिल-विजय-दिवसः भारतीय-सेनायाः अदम्य-साहसस्य, शौर्यस्य, पराक्रमस्य राष्ट्रं प्रति अटूट-समर्पणस्य च प्रतीकः अस्ति। सः उक्तवान् यत् १९९९ तमे वर्षे भारतीय-सैनिकाः विषम-परिस्थितिषु अद्वितीयं वीरत्वं प्रदर्श्य मातृभूमेः रक्षणम् अकुर्वन्, विश्वपटलस्य उपरि च भारतीय-सेनायाः शौर्यस्य परिचयं प्रदत्तवन्तः।
सः अवदत् यत् राष्ट्रं स्ववीर-सैनिकानां बलिदानिनां च सर्वोच्च-बलिदानं प्रति सदा ऋणी भविष्यति। उत्तराखण्डः वीराणां भूमिः अस्ति। राज्यस्य अनेके सैनिकाः कारगिल-युद्ध-सहितेषु विविध-सैन्य-अभियानेषु स्वसाहसेन बलिदानेन च राष्ट्रस्य गौरवं वर्धितवन्तः।
धामी अवदत् यत् राज्य-सर्वकारः सैनिकानां, पूर्व-सैनिकानां, तेषाम् आश्रितानां च कल्याणार्थं निरन्तरं कार्यं करोति तथा तेषां सम्मानस्य हितानां च रक्षणाय प्रतिबद्धः अस्ति। सः युवभ्यः आह्वानम् अकरोत् यत् ते बलिदानिनाम् आदर्शेभ्यः प्रेरणां गृहीत्वा राष्ट्रनिर्माणे तथा देशस्य एकता-अखण्डता-सुरक्षासु स्वदायित्वानि निष्ठया निर्वहेयुः।
अस्मिन् अवसरे सैनिक-कल्याण-मन्त्री गणेशजोशी, बहुसंख्यकाः पूर्व-सैनिकाः, युवानः, महिलाः तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan