Enter your Email Address to subscribe to our newsletters

उरईनगरम्, २५ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः शनिवासरे जालौन-जनपदस्य भ्रमणं कृतवान्। तत्र जनपद-क्रीडाङ्गणे आयोजिते भव्य-कार्यक्रमे सः जनपदाय १२७५-कोटि-रूप्यक-मूल्यानां ३७४ विकास-परियोजनानां उपहारम् अयच्छत्। मुख्यमन्त्रिणा एतासां परियोजनानां शिलान्यासः लोकार्पणं च कृतम्। तेन विविध-जनकल्याण-योजनानां लाभार्थिभ्यः सहाय्य-वितरणं कृत्वा उत्तरप्रदेश-राज्य-ग्रामीण-आजीविका-अभियानस्य अन्तर्गतं १३ कोटि १४ लक्ष ३० सहस्र-रूप्यकाणां धनराशिः लाभार्थिनां लेखेषु स्थानान्तरिता। प्रधानमन्त्री-आवास-योजनायाः पात्रेभ्यः आवास-कुञ्चिकाः प्रदत्ताः, मुख्यमन्त्री-सुकन्या-योजनायाः लाभार्थिनीभ्यश्च प्रमाणपत्राणि प्रदत्तानि।
गौरवशालिनः इतिहासस्य, वीरतायाः सांस्कृतिक-परम्परायाश्च कृते जालौन-जनपदः प्रसिद्धः
स्वसम्बोधनस्य आरम्भे मुख्यमन्त्री योगी-आदित्यनाथः जालौन-वाली-मातरं, एट्-बैरागढ-स्थितां शारदा-मातरं, महर्षिं वेदव्यासं जलवान्-ऋषिं च प्रणम्य अवदत् यत् जालौन-कालपी-नगरौ स्वगौरव-शालिनः इतिहासस्य, वीरतायाः सांस्कृतिक-परम्परायाश्च कृते सम्पूर्णे देशे प्रसिद्धौ स्तः। सः उक्तवान् यत् कालपी-निर्मितं कागदं तथा अत्र उत्पाद्यमाना मटरिका जनपदस्य विशिष्ट-परिचयत्वेन स्तः, पचनदा-सङ्गमश्च अस्य क्षेत्रस्य प्राकृतिक-सम्पदा अस्ति। एक-जनपद-एक-उत्पाद योजनया कालपी-कागद-उद्योगाय नूतन: परिचय: प्राप्त:, सः वैश्विक-स्तरेऽपि स्वस्थानं निर्माति।
बीडा-योजनया जालौन-जनपदः लाभं प्राप्स्यति
मुख्यमन्त्री अवदत् यत् कदाचित् बुन्देलखण्डः दस्यु-प्रभावित-प्रदेशत्वेन ज्ञायते स्म, तत्र जनाः पलायनाय विवशाः आसन्। विपक्षं लक्ष्यीकृत्य सः उक्तवान् यत् येषां नीतिभिः बुन्देलखण्डः पश्चादवर्ती अभवत्, ते एव अद्य मिथ्या-शोकं प्रदर्शयन्ति। अद्य बुन्देलखण्ड-एक्सप्रेस-मार्गः अस्य क्षेत्रस्य नूतन: परिचय: अभवत्। झाँसी-जनपदे बुन्देलखण्ड-औद्योगिक-विकास-प्राधिकरणस्य माध्यमेन औद्योगिक-विकासः तीव्रतया प्रवर्तते, यस्य लाभः जालौन-जनपदाय अपि भविष्यति।
पूर्वं बुन्देलखण्डः अनावृष्टेः अन्धकारस्य च पीडां सोढवान्
मुख्यमन्त्री अवदत् यत् पूर्वं बुन्देलखण्डः अनावृष्ट्या अन्धकारेण च पीडितः आसीत् तथा दस्यूनां भय: आसीत्। अधुना तु सौर-ऊर्जा-परियोजनाभिः सम्पूर्णः प्रदेशः प्रकाशमयः भवितुं गच्छति। जल-जीवन-अभियानस्य अन्तर्गतं गृहे-गृहे पेयजल-प्रदायार्थं शीघ्रतया कार्यं प्रवर्तते। गो-संरक्षणस्य क्षेत्रेऽपि उत्तरप्रदेश-सर्वकारेण व्यापकं कार्यं कृतम्। सः जालौनस्य रङ्गौली-ग्राम-पञ्चायतस्य उल्लेखं कृत्वा अवदत् यत् सा जनपदस्य प्रथमा ग्राम-पञ्चायत् अस्ति या निर्धनता-रेखायाः उपरि समुत्थिता।
दस्यवः भूमौ मिलिताः
विधि-व्यवस्थायाः विषये मुख्यमन्त्री अवदत् यत् तस्य सर्वकारेण प्रदेशात् दस्यु-प्रभावः समाप्तः। भूमिदस्यवः, बालूदस्यवः, गोदस्यवः तथा अन्ये अपराधिनः विरुद्धं कठोरा कार्यवाही कृता। सः पुनरुक्तवान् यत् ये यूनां भविष्येन सह क्रीडिष्यन्ति, तेषां विरुद्धं कठोरतमा कार्यवाही भविष्यति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्पष्टः सन्देशः अस्ति यत् यूनां भविष्येन सह क्रीडमानाः आजीवन-कारावास-दण्डमपि प्राप्स्यन्ति।
प्रश्नपत्र-प्रस्रवण-प्रकरणेषु दोषिणः न क्षम्यन्ते
मुख्यमन्त्री अवदत् यत् परीक्षासु अनियमितता तथा प्रश्नपत्र-प्रस्रवण-प्रकरणेषु सर्वकारः कञ्चन दोषिणं न क्षमिष्यति। सः अवदत् यत् नीट्-परीक्षा-प्रश्नपत्र-प्रस्रवण-प्रकरणे संलिप्तत्वेन गत-चतुर्विंशतिहोरासु ४७ अधिकारिणः एककाले सेवातः निष्कासिताः, तेषां सम्पत्तयः अपि गृहीता:, कठोरा कार्यवाही च कृता। प्रधानमन्त्री नरेन्द्रमोदी स्वयं युवानां चिन्तां करोति तथा तेषां सुरक्षित-भविष्याय प्रतिबद्धः अस्ति।
समाजवादी-पक्षस्य काङ्ग्रेस-पक्षस्य च तीक्ष्णः प्रहारः
स्वसम्बोधने मुख्यमन्त्री समाजवादी-पक्षं काङ्ग्रेस-पक्षं च लक्ष्यीकृत्य अवदत् यत् एतौ केवलं मिथ्या-शोकं प्रदर्शयतः, किन्तु तयोः शासनकाले बुन्देलखण्डस्य विकासार्थं प्राप्तं धनं लुण्ठितम्। विकासस्य नाम्ना भ्रष्टाचारः, सर्वकारीय-नियुक्तिषु वसूली च प्रवर्तते स्म। पूर्वं विकास-निधिः सैफई-नगरे मनोरञ्जन-कार्यक्रमेषु व्ययितः, अधुना तु जनकल्याण-विकासयोः कृते विनियुज्यते।
पूर्वं प्रदेशे कन्या: असुरक्षिताः अनुभवन्ति स्म
मुख्यमन्त्री अवदत् यत् पूर्वं प्रदेशे विधि-व्यवस्था अत्यन्तं दुर्बला आसीत्, कन्यकाश्च आत्मानम् असुरक्षिताः अनुभवन्ति स्म। अधुना उत्तरप्रदेशे महिलाः सुरक्षिताः सन्ति। कश्चन गुण्डः दस्युः वा महिलानां कन्यकानां वा प्रति दुष्टदृष्टिं कर्तुं न साहसते, यतः तस्य कृते कारागारः कठोर-दण्डः वा सुनिश्चितः अस्ति।
एकेन क्लिकमाध्यमेन लाभार्थिनां लेखेषु प्रत्यक्षं धनराशेः स्थानान्तरणम्
सः अवदत् यत् पूर्वं केन्द्र-सर्वकारेण प्रेषितं धनं भ्रष्टाचारस्य भक्ष्यम् अभवत्, अधुना तु द्वि-इञ्जिन-सर्वकारे सर्वासां योजनानां लाभः, पेंशन-सहितं एकेन क्लिक-माध्यमेन प्रत्यक्षं लाभार्थिनां लेखेषु प्राप्यते। वणिजोऽपि अधुना निर्भयतया स्वव्यापारं कुर्वन्ति, सुरक्षिततया स्वगृहं प्रत्यागच्छन्ति।
सिञ्चन-जल-परियोजनाभ्यां कृषकाणाम् आयः वर्धिष्यते
मुख्यमन्त्री योगी-आदित्यनाथः अवदत् यत् प्रदेशे सिञ्चन-जल-परियोजनाः शीघ्रतया कार्यान्विताः भवन्ति, येन कृषकाणाम् आयः वर्धिष्यते। दत्तांश-केन्द्राणां नूतन-प्रौद्योगिकीनां च विकासेन युवभ्यः नूतनाः रोजगार-अवसराः अपि सृज्यन्ते। उत्तरप्रदेशं देशस्य बृहत्तमाम् अर्थव्यवस्थां कर्तुं सर्वकारः निरन्तरं प्रयतते, बुन्देलखण्डश्च अस्य विकास-यात्रायाः महत्त्वपूर्णं केन्द्रं भविष्यति।
Hindusthan Samachar / Divya Ranjan