Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 25 जुलाईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी लोकसभाध्यक्षः ओम बिरला च शनिवासरे देवशयनीआषाढीएकादश्याः शुभावसरे समस्तदेशवासिभ्यः हार्दिकशुभकामनाः प्रदत्तवन्तौ।
प्रधानमन्त्री मोदी उक्तवान् यत् अयं शुभदिवसः भक्तेः करुणायाश्च शाश्वतसन्देशस्य प्रतीकः अस्ति। भगवान् विट्ठलस्य आशीर्वादेन अस्माकं सर्वेषां जीवने सुखं सौहार्दं समृद्धिश्च आगच्छतु तथा सः अस्मान् उत्तमसमाजनिर्माणाय प्रेरयतु। सः अस्मभ्यं प्रत्येकस्य जनस्य कल्याणाय सम्मानाय च निःस्वार्थभावेन सेवां कर्तुं निरन्तरप्रयत्नान् कर्तुं च सङ्कल्पं शक्तिं च प्रददातु।
ओमबिर्ला उक्तवान्, आस्थायाः तपस्यायाः संयमस्य भक्तेश्च अयं दिव्यावसरः अस्मान् आत्मचिन्तनस्य सेवायाः सत्कर्मणां च मार्गे अग्रे गन्तुं प्रेरयति। भगवानः श्रीहरिविष्णोः कृपया सर्वेषां जीवने सुखं समृद्धिः उत्तमारोग्यं शान्तिः नूतना ऊर्जा च प्रवहतु तथा चातुर्मासस्य अयं कालः सर्वेषां कृते मङ्गलमयः कल्याणकरश्च सिद्ध्यतु।
सहकारितामन्त्री गृहमन्त्री च अमितशाहः उक्तवान् यत् भगवान् विट्ठलः माता रखुमाई च सर्वेषां जीवनं सुखैः शान्त्या समृद्ध्या नूतनया ऊर्जया च परिपूरयेयाताम्।
रक्षामन्त्री राजनाथसिंहः उक्तवान् यत् भगवानः श्रीहरिविष्णोः आशीर्वादः सर्वेषामुपरि सदा विराजताम्। अयं पवित्रपर्व अस्माकं सर्वेषां जीवने सुखं शान्तिं समृद्धिं कल्याणं च आनयतु तथा सेवायाः करुणायाः धर्मस्य च मार्गे चलितुं प्रेरणां ददातु।
केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी उक्तवान् यत् भगवानः विट्ठलस्य कृपया सर्वेषां जीवने सुखं समृद्धिः उत्तमारोग्यं च आगच्छतु।
---------------
Hindusthan Samachar / Dheeraj Maithani