छात्राणाम् आन्दोलनस्य मध्ये केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रप्रधानः त्यागपत्रम् अयच्छत्
नवदेहली, २५ जुलाईमासः (हि.स.)। नीट्-प्रश्नपत्र-प्रस्रवण-विवाद: छात्रेषु कृता आरक्षक-कार्यवाही च इत्येतयोः कारणेन देशस्य विभिन्न-प्रदेशेषु प्रवर्तमानानां विरोध-प्रदर्शनानां मध्ये केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रप्रधानः शनिवासरे त्यागपत्रम् अयच्छत्
शिक्षा मंत्री धर्मेंद्र प्रधान (फाइल फोटो)।


नवदेहली, २५ जुलाईमासः (हि.स.)। नीट्-प्रश्नपत्र-प्रस्रवण-विवाद: छात्रेषु कृता आरक्षक-कार्यवाही च इत्येतयोः कारणेन देशस्य विभिन्न-प्रदेशेषु प्रवर्तमानानां विरोध-प्रदर्शनानां मध्ये केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रप्रधानः शनिवासरे त्यागपत्रम् अयच्छत्। देहल्याः जन्तर-मन्तर-स्थले छात्राणां प्रदर्शनम् अद्यापि निरन्तरं प्रवर्तते, अस्मिन्नेव काले प्रधानः स्वपदस्य परित्यागस्य निर्णयम् अकरोत्।

प्रधानः स्वत्यागपत्रे लिखितवान् यत् सः सदा प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्वे शक्तौ च विश्वासं धारयति। यूनां आकाङ्क्षाणां, स्वप्नानाम् अपेक्षाणां च सम्मानं तस्य दृढः सङ्कल्पः अस्ति। भारतस्य युवाशक्तिः केवलं राष्ट्रस्य भविष्यं न, अपितु नूतनस्य विकसित-भारतस्य निर्मात्री शिल्पकारिणी च अस्ति।

धर्मेन्द्रप्रधानः अवदत् यत् गतदशदिनेषु घटिताः घटनाः तं दुःखितवन्त्यः। एतत् तस्य व्यक्तिगत-प्रतिष्ठायाः विषयः नास्ति, अपितु राष्ट्रस्य युवाशक्तिः एव अस्य राष्ट्रस्य वास्तविकं बलम् अस्ति, सा च केनापि कुचक्रे न पातयितव्या। आत्ममन्थनानन्तरं सः एतत् सङ्कल्पम् अकरोत् यत् देशस्य स्थितिः केनापि शक्त्या न दुर्बला करिष्यते, न भङ्क्ष्यते, न च नमयिष्यते।

प्रधानः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्वे देशस्य युवाशक्तेः जनविश्वासस्य च अधिकं सुदृढीकरणाय सः स्वकर्तव्यानि निरन्तरं निर्वहिष्यति। सः प्रधानमन्त्रिणः मार्गदर्शनाय प्रेरणाय सहयोगाय च कृतज्ञतां प्रकटितवान्। भारतमातुः, अखण्डभारतस्य, देशस्य युवाशक्तेश्च सशक्तीकरणार्थं वयं सर्वे सर्वदा आत्मानं समर्पितवन्तः भविष्यामः इति सः अवदत्।

उल्लेखनीयं यत् नीट्-प्रश्नपत्र-प्रस्रवण-प्रकरणे कॉकरोच-जनता-पक्षस्य नेतृत्वे २० जुलाईमासे छात्रैः संसद्-शोभायात्रा आयोजिता। शान्तिपूर्णं प्रदर्शनं कुर्वतां छात्राणां विरुद्धम् आरक्षकैः दण्डप्रहारः कृतः, अश्रुवाति-गोलकानि प्रक्षिप्तानि, कथञ्चित् पैलेट्-भुषूण्डिकायाः उपयोगोऽपि कृतः। अस्मिन् संघर्षे शताधिकाः छात्राः तथा अनेके आरक्षककर्मिणः आहताः अभवन्। ततः प्रभृति: छात्राणाम् आन्दोलनम् अधिकं तीव्रम् अभवत्।

२२ जुलाईमासे काङ्ग्रेस-नेता राहुलगान्धी पत्रकार-वार्तायां विवरणानि प्रस्तूय उक्तवान् यत् गतदशवर्षेषु देशे १५२ प्रश्नपत्र-प्रस्रवण-घटनाः अभवन्, येन प्रायः ७.५ कोटि-छात्राणां भविष्यं प्रभावितम्। तस्मिन्नेव दिने सः प्रधानमन्त्री-आवासस्य बहिः विरोधप्रदर्शनम् अकरोत्, यत्र आरक्षकैः सः निरुद्धः। २३ जुलाईमासे राहुलगान्धी इण्डिया-गठबन्धनस्य सांसदैः सह गान्धी-स्मृतौ दीपयात्रां प्रदर्शनं च अकरोत्।

अपरतः केन्द्रीय-सर्वकारेण प्रश्नपत्र-प्रस्रवण-निवारणार्थं नूतनः विधिः अनुमोदितः। अस्मिन् विधौ दोषिभ्यः शीघ्र-न्यायालयस्य माध्यमेन त्रिमासाभ्यन्तरे दण्डनिर्णयस्य व्यवस्था कृता अस्ति। दोषिणः दशवर्षपर्यन्तं कारावासदण्डेन दश-कोटि-रूप्यकपर्यन्तेन अर्थदण्डेन च दण्डनीयाः भविष्यन्ति। सर्वकारस्य कथनम् अस्ति यत् एषः उपायः छात्रहिताय शिक्षाव्यवस्थायाः पारदर्शितावर्धनाय च आवश्यकः अस्ति।

Hindusthan Samachar / Divya Ranjan