Enter your Email Address to subscribe to our newsletters

सहरसानगरम्, २५ जुलाईमासः (हि.स.)। बिहारस्य मुख्यमन्त्रिणः सम्राट्-चौधरी-महोदयस्य नेतृत्वे बिहार-सर्वकारस्य ‘सेवा, सङ्कल्पः, समर्पणम्’ इति शत-दिवस-पूर्णतायाः उपलक्ष्ये शनिवासरे जनपदस्य विकास-भवन-सभागारे जनपद-स्तरीय-कार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् अवसरे पटनानगरे आयोजितस्य राज्य-स्तरीय-कार्यक्रमस्य प्रत्यक्ष-प्रसारणं सर्वैः उपस्थितैः अधिकारिभिः कर्मिभिश्च दृष्टम्।
कार्यक्रमे जनपदाधिकारी दीपेश-कुमारः, आरक्षक-अधीक्षकः विक्रम-सिहागः, उप-विकास-आयुक्तः गौरव-कुमारः, अपर-समाहर्ता निशान्त-कुमारः, आपदा-प्रबन्धनस्य अपर-समाहर्ता मुकेश-कुमारः, नगर-आयुक्तः प्रभात-झा, जनपद-जनसम्पर्क-अधिकारी सुजीत-कुमार-बरणवालः तथा विविध-विभागानां जनपद-स्तरीय-अधिकारिणः कर्मिणश्च उपस्थिताः आसन्। प्रत्यक्ष-प्रसारणानन्तरं सहरसा-जनपदे विगत-शत-दिवसेषु विविध-क्षेत्रेषु सम्पन्नानां उल्लेखनीय-कार्याणाम् उपलब्धीनां च आधारेण निर्मितस्य वृत्तचित्रस्य प्रदर्शनम् अभवत्।
अवसरे विविध-विभागेषु उत्कृष्ट-कार्यं कृतवन्तः कर्मिणः प्रशस्ति-पत्रैः सम्मानिताः। सम्मानितेषु सहरसा-नगर-निगमस्य स्वच्छता-निरीक्षकः सुमन-डे, स्वच्छता-जमादारः अजय-कुमार-मुन्ना, कर-सङ्ग्राहकः रञ्जन-कुमारः, जनपद-कोषागारस्य लिपिकः बमबम-झा, वाहन-चालकः रमेश-मण्डलः, गृह-रक्षकः अरविन्द-ठाकुरः, कार्यालय-परिचारकः महेन्द्र-कुमार-दासः, जीविका-दीद्यः श्रीमती निशा-कुमारी, श्रीमती रतन-कुमारी, श्रीमती भारती-कुमारी, कार्यपालक-सहायकौ हरिमोहन-झा, पङ्कज-कुमारः तथा विजय-भूषणः समाविष्टाः आसन्। बाल-विकास-परियोजनायाः अन्तर्गतं उत्कृष्ट-कार्यं कृतवत्यौ आङ्गनवाडी-सेविके श्रीमती कुमारी-सोनी तथा श्रीमती मीरा-कुमारी अपि प्रशस्ति-पत्रैः सम्मानिते।
विद्यालयस्य पाचिका अनीता-देवी अपि उत्कृष्ट-कार्यस्य कृते सम्मानिता। कार्यक्रमे प्रधानमन्त्री-सूक्ष्म-खाद्य-उद्योग-उन्नयन-योजनायाः अन्तर्गतं ऋणं प्राप्य सफलतया दुग्ध-उद्योगं स्थापितवान् सहरसा-जनपदस्य युवा-उद्यमी मनीष-कुमारः अपि सम्मानितः। तेन सञ्चालिते दुग्ध-उद्योगे दुग्धस्य दुग्ध-उत्पादानां च उत्पादनं क्रियते, बिहारस्य विभिन्न-जनपदेषु तेषां विपणनं भवति, येन स्थानीय-स्तरे रोजगार-सृजनमपि प्रोत्साहितम् अस्ति।
अस्मिन् अवसरे महिषी-अञ्चलस्य ऐना तथा वीरग्राम-पञ्चायतयोः एकोनसप्तति: भूमिहीन-परिवारेभ्यः भूमि-पट्टाः अपि वितरिताः। लाभार्थिनीभिः महिलाभिः स्वकीया भूमिः प्राप्ता इति हर्षः व्यक्त:। ताः उक्तवत्यः यत् अधुना ताः स्वस्य आवासं निर्माय सम्मानपूर्वकं जीवनं यापयितुं शक्नुवन्ति। एतस्य उपक्रमस्य कृते ताभिः मुख्यमन्त्रिणे जनपद-प्रशासनाय च कृतज्ञता प्रकटिता।
कार्यक्रमं सम्बोधयन् जनपदाधिकारी दीपेश-कुमारः अवदत् यत् विगत-शत-दिवसेषु जनपदे विकासस्य जन-कल्याणस्य च क्षेत्रे अनेकानि महत्त्वपूर्णानि कार्याणि सम्पन्नानि सन्ति।
Hindusthan Samachar / Divya Ranjan