ऊर्जासुरक्षायाः दिशि महानद्याम् अपतटीयायां बेसिन इत्यस्यां प्रथमं मूल्यांकनं कूपखननमिति शुभारब्धम् : हरदीप पुरी
नवदिल्ली, 25 जुलाईमासः (हि.स.)। केन्द्रीयपेट्रोलियमप्राकृतिकवायुमन्त्री हरदीपसिंहपुरी शनिवासरे महानदी अपतटीयबेसिने प्रथममूल्याङ्कनकूपस्य उत्खननकार्यस्य आरम्भस्य घोषणां कृतवान्। तेन एतत् ऊर्जायाः आयातनिर्भरतां न्यूनीकर्तुं दिशि महत्त्वपूर्णं पदम्
अपतटीय बेसिन में पहले मूल्यांकन कुएं की ड्रिलिंग की जारी फोटो


अपतटीय बेसिन में पहले मूल्यांकन कुएं की ड्रिलिंग की जारी फोटो


नवदिल्ली, 25 जुलाईमासः (हि.स.)।

केन्द्रीयपेट्रोलियमप्राकृतिकवायुमन्त्री हरदीपसिंहपुरी शनिवासरे महानदी अपतटीयबेसिने प्रथममूल्याङ्कनकूपस्य उत्खननकार्यस्य आरम्भस्य घोषणां कृतवान्। तेन एतत् ऊर्जायाः आयातनिर्भरतां न्यूनीकर्तुं दिशि महत्त्वपूर्णं पदम् इति वर्णितम्।

हरदीपसिंहपुरी एतत् अवसरम् ऊर्जासुरक्षायाः दिशि भारतस्य यात्रायाः नूतनाध्यायस्य प्रारम्भः इति अवदत्। तेन उक्तं यत् उत्खननकार्यस्य आरम्भः गतदशवर्षेषु कृतानां दूरदर्शिसुधाराणां परिणामः अस्ति। मन्त्री अवदत् यत् एते सुधाराः देशस्य अन्वेषणोत्पादनपरिदृश्यं सम्पूर्णतया परिवर्तितवन्तः।

केन्द्रीयपेट्रोलियममन्त्री सर्वकारस्य अन्वेषणसुधारकार्यक्रमस्य अन्तर्गतं जातां प्रगतिं वर्णयन् अवदत् यत् ओएएलपी योजनायाः अन्तर्गतं प्रायः ३ दशमलव ८ लक्षवर्गकिलोमीटरपरिमिते क्षेत्रे विस्तृताः १७२ अन्वेषणखण्डाः आवंटिताः सन्ति। एतेषु ४ दशमलव ३ अरब अमेरिकीयरूप्यकपरिमितात् अधिकं निवेशं कृतम्। तेन उक्तं यत् वित्तवर्षे २०२५ २६ मध्ये एव प्रायः ६७४ कूपानाम् उत्खननं कृतम् पञ्च नूतनभण्डाराणि आविष्कृतानि सप्तभण्डारेभ्यः उत्पादनं च प्रारब्धम्।

हरदीपसिंहपुरी अवदत् यत् उत्खननस्य प्रत्येकः मीटरः अस्मान् आयातनिर्भरतायाः न्यूनीकरणाय आत्मनिर्भरतायाः सुदृढीकरणाय विकसितभारतस्य स्वप्नस्य साकारणाय च समीपतरं नयति। तेन अस्य कृते ओएनजीसी ऑयल इण्डिया लिमिटेड हाइड्रोकार्बनमहानिदेशालयम् तकनीकीसहभागिनः सम्पूर्णान्वेषणसमुदायं च अभिनन्दितवान्। तेन विश्वासः व्यक्तीकृतः यत् अद्य आरब्धम् उत्खननकार्यं भारतस्य अपतटीयान्वेषणप्रयत्नान् अधिकं सुदृढं करिष्यति तथा देशस्य दीर्घकालिकऊर्जासुरक्षायै ऊर्जास्वावलम्बनलक्ष्याय च महत्त्वपूर्णं योगदानं दास्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani