Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ जुलाईमासः (हि.स.)। बहुजन-समाज-पक्षस्य राष्ट्रीयाध्यक्षा मायावती देहल्याः जन्तर-मन्तर-स्थले नीट्-यूजी-सहितानां विविध-परीक्षाणां पत्रप्रस्रवण-विषये छात्राणाम् आन्दोलनस्य सम्बन्धे स्वप्रतिक्रियाम् अयच्छत्। सा उक्तवती यत् अस्मिन् विषये सर्वकारस्य विपक्षस्य च मध्ये राजनीतिः अत्यन्तम् उष्णा जाता अस्ति, येन शिक्षाव्यवस्थायाः आवश्यकस्य व्यापक-सुधारस्य वास्तविकः विषयः कुत्रापि लुप्तो मा भूयात्।
मायावती शनिवासरे एक्स इत्यस्मिन् समाजमाध्यमे प्रकाशिते सन्देशे लिखितवती यत् देशे नीट्-यूजी-सहितानां अन्यपरीक्षाणां कथित-प्रश्नपत्र-प्रस्रवणानन्तरं छात्र-छात्रीषु महद् आक्रोशः वर्तते। परीक्षार्थिनां आत्महत्यादयः घटनाः चिन्ताम् अधिकां कृतवन्त्यः। अपरतः कॉकरोच-जनता-पक्षस्य विरथख-प्रदर्शनं जनानां सहानुभूतिं प्राप्नोति। अस्मिन्नेव काले केन्द्रीय-शिक्षामन्त्रिणः त्यागपत्रस्य याचनां प्रति विपक्ष-सर्वकारयोः मध्ये तीव्रः संघर्षः प्रवर्तमानः अस्ति।
सा अवदत् यत् अस्य विषयस्य राजनतिक-लाभार्थं विशेषतः विपक्ष-दलानां मध्ये मार्गतः संसद्पर्यन्तं प्रबलः स्पर्धाभावः दृश्यते। तेन सर्वकार-विपक्षयोः मध्ये संघर्ष: वर्धमानः सन् हिंसारूपेण विभिन्न-राज्येष्वपि प्रसर्तुम् आरब्धः। एतदर्थं सा स्वपक्षस्य कार्यकर्तॄन् सावधानान् सजगांश्च भवितुम् आह्वयति।
बसपा-प्रमुखा अवदत् यत् अस्य विषयस्य सम्पूर्ण-राजनी करणेन सह जन्तर-मन्तर-स्थले आन्दोलनकारिणां विरुद्धम् आरक्षकैः कृता कार्यवाही स्थितिम् अधिकाम् उष्णां गम्भीरां च कृतवती। अस्य तीव्र-तनावपूर्ण-परिस्थितेः कारणात् संसदः वर्तमानं वर्षाकालीनं सत्रम् अद्यावधि एकमपि दिनं सम्यक् सुचारुरूपेण न प्रवृत्तम्। तेन राष्ट्रहित-जनहितयोः अनेकेषां महत्त्वपूर्ण-विषयाणां विषये सर्वकारस्य उत्तरदायित्वस्य निर्वहणमपि प्रायः अवरुद्धम् अभवत्।
सर्वकारः सीजेपी-आन्दोलनस्य निवारणार्थं यान् उपायान् अन्विष्यति, ते भ्रष्टाचारस्य अयोग्यतायाश्च कारणेन जातस्य प्रश्नपत्र-प्रस्रवणस्य अनन्तरं कठोर-कार्यवाह्याः द्योतकाः सन्ति। किन्तु प्रश्नपत्र-प्रस्रवणस्य जघन्य-अपराधस्य पूर्वमेव निवारणार्थम् उचितोपायानां अभावात् जनानाम् असन्तोषोऽपि वर्धते।
मायावती स्वपक्षस्य पदाधिकरिभ्यः कार्यकर्तृभ्यश्च आह्वानं कृतवती यत् वर्तमान-राजनैतिक-परिस्थितौ ते उग्राः निराशाश्च न भूत्वा स्व-अजिरा प्रति पूर्ण-समर्पणेन तन-मन-धनैः निरन्तरं दृढतया तिष्ठेयुः।
Hindusthan Samachar / Divya Ranjan