व्यय वित्त समितेः उपवेशनाय मुख्यनिर्णयः
देहरादूनम्, 25 जुलाईमासः (हि.स.)। मुख्यसचिवस्य आनन्दबर्द्धनस्य अध्यक्षतायां सचिवालये व्ययवित्तसमितेः उपवेशनम् आयोजितम्। अस्मिन् उपवेशने समित्या विभिन्नविभागानां प्रस्तावानां संस्तुतिः कृता। मुख्यसचिवेन पम्पचालितपेयजलयोजनानां सञ्चालनं परिपालनञ्च
बैठक में अधिकारियों को निर्देश देते अधिकारी।


देहरादूनम्, 25 जुलाईमासः (हि.स.)।

मुख्यसचिवस्य आनन्दबर्द्धनस्य अध्यक्षतायां सचिवालये व्ययवित्तसमितेः उपवेशनम् आयोजितम्। अस्मिन् उपवेशने समित्या विभिन्नविभागानां प्रस्तावानां संस्तुतिः कृता।

मुख्यसचिवेन पम्पचालितपेयजलयोजनानां सञ्चालनं परिपालनञ्च सततं मितव्ययिनं च कर्तुं सौरशक्त्या सञ्चालनीयतायाः सम्भावना अन्वेष्टुं तत्सम्बद्धं प्रस्तावे समावेशयितुं निर्देशाः प्रदत्ताः। तेन सर्वासु पम्पचालितपेयजलपरियोजनासु निर्माणकाले सौरिकीकरणस्य सम्भावना अनिवार्यतया परीक्षितव्या इति उक्तम्। एतत्सम्बन्धे नियोजनविभागेन शासनादेशः निर्गन्तव्यः इत्यपि निर्देशः प्रदत्तः।

मुख्यसचिवेन विभागैः अद्यापि परामर्शदातृभ्यः परियोजनाव्ययस्य प्रतिशताधारेण पारिश्रमिकं प्रदीयमानम् इति विषये असन्तोषः प्रकटितः। तेन पूर्वप्रदत्तनिर्देशानुसारं परामर्शदातृभ्यः पारिश्रमिकं एकमुष्टिरूपेण एव प्रदातव्यं, तस्य पालनं सुनिश्चितं च कर्तव्यमिति उक्तम्। एतत्सम्बन्धी शासनादेशः पुनः सर्वविभागेभ्यः प्रेषणीयः इत्यपि निर्देशः प्रदत्तः।

मुख्यसचिवेन परियोजनायाः अथवा तस्याः कस्यचित् अंशस्य व्यये अप्रत्याशितवृद्धेः प्रकरणानि गम्भीरतया ग्राह्याणि इति उक्तम्। यया संस्थया दोषपूर्णमूल्याङ्कनस्य कारणेन व्ययवृद्धिः अभवत्, तस्याः संस्थायाः विरुद्धं नियमानुसारं कार्यवाही कर्तव्या इति तेन निर्दिष्टम्। नियोजनविभागाय लोकनिर्माणविभागस्य मार्गदर्शनेन व्ययपरिवर्तनसम्बद्धा मार्गदर्शिका निर्मातुं निर्देशाः प्रदत्ताः, येन परियोजनानां व्यये अनावश्यकवृद्धिः निरोद्धुं शक्येत।

मुख्यसचिवेन उक्तं यत् प्रदेशे आयुषक्षेत्रे पर्याप्ताः सम्भावनाः सन्ति, अतः अस्मिन् क्षेत्रे उत्तमाः परियोजनाः निर्मातव्याः, तेषां स्थाननिर्धारणेऽपि विशेषः विचारः करणीयः। बागेश्वरजनपदस्य गरुडक्षेत्रे औद्योगिकप्रशिक्षणसंस्थायाः प्रस्तावे समीपे छात्रावासव्यवस्थापि सुनिश्चितव्या इति तेन निर्देशितम्। तेन उक्तं यत् एतेन संस्थायां प्रवेशं गृह्णतां छात्राणां महती सुविधा भविष्यति।

अस्मिन्नवसरे प्रमुखसचिवौ आर. के. सुधांशुः, आर. मीनाक्षीसुन्दरम्, सचिवः दिलीपजावलकरः, डॉ. पङ्कजकुमारपाण्डेयः, श्रीधरबाबू अड्डाङ्की, सी. रविशङ्करः च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani