Enter your Email Address to subscribe to our newsletters

जयपुरम्, 25 जुलाईमासः (हि.स.)।
आषाढशुक्लैकादश्याः (देवशयनीएकादश्याः) पावनावसरे शनिवासरे जयनिवासबागस्थिते श्रीगोविन्ददेवजीमहाराजमन्दिरे श्रद्धाभक्त्योः अनुपमः समागमः दृष्टः। महन्तेन अञ्जनकुमारगोस्वामिना सान्निध्ये मन्दिरे दिवसभरं विशेषधार्मिकानुष्ठानानि सम्पन्नानि। वैदिकमन्त्रैः सह ठाकुरश्रीजीस्य पञ्चामृताभिषेकः कृतः, तस्मै च रक्तवर्णा मनोहरा नटवरवेशभूषा धारिता।
महन्तः अञ्जनकुमारगोस्वामी अवदत् यत् मङ्गलझाङ्क्याः पूर्वं वैदिकविधिना ठाकुरश्रीजीस्य पञ्चामृताभिषेकः सम्पन्नः। ततः परं भगवतः दिव्यमलङ्कारः कृतः। रक्तवर्णनटवरवेशेन सह मुकुटम्, आभरणानि, दण्डश्च धारिताः, येन सम्पूर्णः मन्दिरपरिसरः भक्तिरसेन परिपूर्णः अभवत्।
ग्वालझाङ्क्याः अनन्तरं ठाकुरश्रीजीस्य शालिग्रामरूपः (श्रीनारायणस्वरूपः) भव्ये रजतरथे प्रतिष्ठाप्य मन्दिरस्य नैऋत्यकोणे स्थितं तुलसीमञ्चं यावत् शोभायात्रारूपेण नीतः। तत्र महन्तेन अञ्जनकुमारगोस्वामिना वैदिकमन्त्रौच्चारणपूर्वकं शालिग्रामभगवतः पञ्चामृताभिषेकः तथा तुलसीमहाराण्याः विधिपूर्वकं पूजनं कारितम्। पूजनानन्तरं तुलसीमहाराण्याः शालिग्रामभगवतश्च चतस्रः प्रदक्षिणाः कृत्वा विशेषारार्तिका कृता।
ततः शालिग्रामभगवान् खट्वायां प्रतिष्ठाप्य निजमन्दिरस्य एका प्रदक्षिणा कारिता, पुनश्च गर्भगृहे प्रतिष्ठापितः। अनन्तरं सायंझाङ्क्याः आरार्तिकादर्शनं श्रद्धालूनां कृते उद्घाटितम्।
देवशयनीएकादश्याः पावनावसरे ठाकुरश्रीजये ऋतुफलानां विशेषनैवेद्यः समर्पितः। अस्मिन् नैवेद्ये जम्बूफलम्, सेवफलम्, आलूबुखारफलम्, कदलीफलम्, आम्रफलञ्च समाविष्टानि आसन्। एतदतिरिक्तं मुद्गः, चणकः, अखण्डमुद्गः, मोठः तथा अखण्डचणकदलस्य विशेषनैवेद्योऽपि समर्पितः।
सम्पूर्णदिने मन्दिरे श्रद्धालूनां सततमागमनं प्रचलितम्। भक्ताः श्रीगोविन्ददेवजीमहाराजस्य दर्शनं कृत्वा सुखसमृद्ध्योः कामनाम् अकुर्वन्।
---------------
Hindusthan Samachar / Dheeraj Maithani