इतिहासस्य पृष्ठेषु २६ जुलाईमासः - भारतीय-सेनायाः अदम्य-साहसस्य विजयगाथा
भारतीय-इतिहासे २६ जुलाईमासस्य दिवसः अत्यन्तं महत्त्वपूर्णः अस्ति। २६ जुलाई १९९९ दिनाङ्के भारतीय-सेनया अदम्य-साहसस्य शौर्यस्य च परिचयं प्रदर्श्य कारगिल-युद्धे पाकिस्तानदेश: पराजितः। १९९९ तमे वर्षे भारत-पाकिस्तानदेशयोः मध्ये जातं कारगिल-युद्धम् प्राय
कारगिल विजय (फाइल फोटो)


भारतीय-इतिहासे २६ जुलाईमासस्य दिवसः अत्यन्तं महत्त्वपूर्णः अस्ति। २६ जुलाई १९९९ दिनाङ्के भारतीय-सेनया अदम्य-साहसस्य शौर्यस्य च परिचयं प्रदर्श्य कारगिल-युद्धे पाकिस्तानदेश: पराजितः। १९९९ तमे वर्षे भारत-पाकिस्तानदेशयोः मध्ये जातं कारगिल-युद्धम् प्रायः चतुरशीतिदिनानि यावत् प्रवृत्तम्। अस्मिन् युद्धे भारतीय-सैनिकाः कठिन-परिस्थितिषु हिमाच्छादित-उच्च-शिखरेषु च अद्वितीयं वीरत्वं प्रदर्श्य शत्रून् पराजित्य २६ जुलाई १९९९ दिनाङ्के विजयम् अलभन्त।

कारगिल-युद्धस्य प्रारम्भः १९९९ तमस्य वर्षस्य मई-मासे अभवत्, यदा पाकिस्तानी-सैनिकाः घुसपैठिनश्च नियन्त्रण-रेखां उल्लङ्घ्य कारगिल-प्रदेशस्य अनेकासु महत्त्वपूर्णासु भारतीय-चौकी-इत्येतेषु अधिकारम् अकुर्वन्। ततः भारतेन ‘ऑपरेशन विजय’ इति अभियानस्य माध्यमेन प्रत्युत्तरं दत्तम्। भारतीय-सेना दुर्वह-वातावरणे, दुर्गम-पर्वतेषु, विषम-परिस्थितिषु च असाधारण-साहसं दृढ-सङ्कल्पं च प्रदर्श्य सर्वाः आधिपत्यगताः चौकी-आदय: पुनः स्वनियन्त्रणे आनयत्। अस्मिन् युद्धे मातृभूमेः रक्षणार्थम् अनेके वीर-सैनिकाः स्वस्य सर्वोच्च-बलिदानम् अददुः। तेषां शौर्यं देशभक्तिश्च अस्माकं सर्वेषां प्रेरणास्रोतः अस्ति।

कारगिल-विजय-दिवसः केवलं ऐतिहासिक-विजयस्य उत्सवः न, अपितु वीर-योद्धानां साहसं, त्यागं, राष्ट्रं प्रति समर्पणस्य च वन्दनायाः अवसरः अपि अस्ति। अस्मिन् दिने सम्पूर्णे देशे श्रद्धाञ्जलि-सभाः, सांस्कृतिक-कार्यक्रमाः, देशभक्ति-सम्बद्ध-आयोजनानि च भवन्ति। कारगिल-विजय-दिवसः अस्मान् बोधयति यत् राष्ट्रस्य सुरक्षा-सम्मानयोः कृते अस्माकं सैनिकाः सर्वासु परिस्थितिषु स्वसर्वस्वं समर्पयितुं सदा सज्जाः सन्ति। तेषां त्यागस्य सम्मानः अस्माभिः करणीयः तथा देशभक्तेः, एकतायाः, राष्ट्रसेवायाश्च भावना स्वजीवने स्वीकरणीया। अयं दिवसः प्रत्येकं भारतीयस्य कृते गौरवस्य, प्रेरणायाः, राष्ट्रप्रेम्णश्च प्रतीकः अस्ति।

महत्त्वपूर्णाः घटनाः

१८७६ — कलकत्ता-नगरे इण्डियन-एसोसिएशन संस्थायाः स्थापना अभवत्।१९४५ — विन्स्टन-चर्चिलः ब्रिटेनस्य प्रधानमन्त्रीपदात् त्यागपत्रम् अददात्।१९५१ — नीदरलैण्ड्-देशेन जर्मनी-देशेन सह युद्धस्य समाप्तिः घोषिताः।१९५६ — मिस्रदेशेन स्वेज-कूल्या स्वाधीना कृता।१९६५ — मालदीवः ब्रिटिश-शासनात् स्वतन्त्रः अभवत्।१९७४ — फ्रान्स-देशेन मुरूओरा-द्वीपे परमाणु-परीक्षणम् अकरोत्।१९९७ — श्रीलङ्का-क्रिकेट-दलेन एशिया-कप-प्रतियोगिता विजिता।१९९७ — ख्मेर-रूज-सङ्गठनस्य नेता पोलपोटः आजीवन-कारावास-दण्डेन दण्डितः।१९९८ — महिला-क्रीडिका जैकी-जॉयनर-केर्सी क्रीडाक्षेत्रात् निवृत्ता।२००० — फिजी-देशे विद्रोही-नेता जार्ज-स्पीटः सेनया गृहीतः।२००२ — इण्डोनेशिया-देशस्य न्यायालयेन पूर्वराष्ट्रपतिः सुहार्तो-पुत्रः पञ्चदश-वर्षीय-कारावास-दण्डेन दण्डितः।२००५ — नासा-संस्थया डिस्कवरी अन्तरिक्षयानस्य प्रक्षेपणम् अभवत्।२००८ — यूरोपीय-विज्ञानिभिः सौरमण्डलस्य बहिः नूतनः ग्रहः आविष्कृतः।२००८ — गुजरातस्य अहमदाबाद-नगरे बहवः विस्फोटाः अभवन्, ५६ जनाः मृताः, २०० अधिकाः आहताः।२०१२ — सीरियादेशे हिंसक-घटनासु एकस्मिन् दिने प्रायः २०० जनाः मृताः।२०१३ — पाकिस्तानस्य पराचिनार-नगरे बम-विस्फोटे ५७ जनाः मृताः।२०१६ — सोलर-इम्पल्स–२ इति विमानं सौर-ऊर्जया पृथिव्याः परिक्रमां सम्पन्नं कृतवान् प्रथमं विमानम् अभवत्।

जन्म

१९०४ — मालती-चौधरी — भारतीय-स्वातन्त्र्य-सेनानी, गान्धीवादिनी च।१९१० — बी.आर. पन्थुलु — भारतीय-चलचित्र-निर्देशकः, निर्माता, अभिनेता च।१९१५ — कृष्ण-पट्टाभि-जोइसः — प्रसिद्धः भारतीयः योगाचार्यः।१९२७ — गुलाबराय-रामचन्दः — पूर्वः भारतीयः क्रिकेट-क्रीडकः।१९७२ — जुगल-हंसराजः — भारतीयः अभिनेता, लेखकः च।

निधनम्

१९८३ — सत्यनारायण-सिन्हा — भारतीय-राष्ट्रीय-काङ्ग्रेसस्य राजनेता, पूर्वमन्त्री च।२०१३ — उबैद-सिद्दीकी — भारतीयः अनुसन्धान-प्राध्यापकः, टाटा-फण्डामेण्टल-रिसर्च-संस्थानस्य संस्थापक-निदेशकः च।

महत्त्वपूर्णः दिवसःकारगिल-विजय-दिवसः।

Hindusthan Samachar / Divya Ranjan