मध्यप्रदेशः- मुख्यमंत्री डॉ. मोहन यादवः अद्य दतिया विधानसभा क्षेत्रस्य मतदानभ्रमणम्
भोपालम्, 25 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य शनिवासरे दतियाविधानसभाक्षेत्रस्य निर्वाचनप्रचारार्थं प्रवासं करिष्यति। अस्मिन् प्रवासे सः विविधासु जनसभासु सहभागं करिष्यति, प्रबुद्धजनोपवेशनं सम्बोधयिष्यति, प्रमुखकार्य
सीएम मोहन यादव


भोपालम्, 25 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य शनिवासरे दतियाविधानसभाक्षेत्रस्य निर्वाचनप्रचारार्थं प्रवासं करिष्यति। अस्मिन् प्रवासे सः विविधासु जनसभासु सहभागं करिष्यति, प्रबुद्धजनोपवेशनं सम्बोधयिष्यति, प्रमुखकार्यकर्तृभिः सह भेंटं करिष्यति तथा व्यापरिसम्मेलनमपि सम्बोधयिष्यति।

भारतीयजनतापक्षस्य कार्यालयेन प्रदत्तसूचनानुसारम् अद्य अपराह्णे द्विवादने मुख्यमन्त्री दतियाजनपदस्य उदगवां ग्रामे तथा सायं चतुर्वादने सीतापुरमण्डलस्य उपरायं ग्रामे विशालजनसभां सम्बोधयिष्यति। ततः सायं षड्वादनार्धे दतियानिर्वाचनकार्यालये होटल रतन रॉयल इत्यत्र आयोजितं प्रबुद्धजनोपवेशनं सम्बोध्य दतियानगरस्य ग्रामीणक्षेत्रस्य च प्रमुखकार्यकर्तृभिः सह भेंटं करिष्यति। अनन्तरं सायं सप्तवादनपञ्चचत्वारिंशन्मिनिटे होटल एमपीटी मोटेल इत्यत्र आयोजितं व्यापरिसम्मेलनं सम्बोधयिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani