संस्कृत-भाषायाः व्यवहारे प्रयोगस्य आवश्यकता - गौराङ्ग-साहू
उत्तरप्रदेश-संस्कृत-संस्थानेन “गृहे गृहे संस्कृतम्” इति योजनान्तर्गतं प्रशिक्षण-शिविरं सम्पन्नम् मुरादाबादनगरम्, २५ जुलाईमासः (हि.स.)। उत्तरप्रदेश-संस्कृत-संस्थानेन लखनऊ-नगरात् शिव-सुन्दरी-माण्टेसरी-विद्यालये कुमार-कुञ्ज-जीएमडी-मार्गे मुरादाबाद-मह
शिव सुंदरी मोंटेसरी स्कूल मुरादाबाद में 12 दिवसीय प्रशिक्षण शिविर के समापन पर उपस्थित अतिथि।


उत्तरप्रदेश-संस्कृत-संस्थानेन “गृहे गृहे संस्कृतम्” इति योजनान्तर्गतं प्रशिक्षण-शिविरं सम्पन्नम्

मुरादाबादनगरम्, २५ जुलाईमासः (हि.स.)। उत्तरप्रदेश-संस्कृत-संस्थानेन लखनऊ-नगरात् शिव-सुन्दरी-माण्टेसरी-विद्यालये कुमार-कुञ्ज-जीएमडी-मार्गे मुरादाबाद-महानगरे शनिवासरे “गृहे गृहे संस्कृतम्” योजनान्तर्गतं द्वादश-दिवसीयं प्रशिक्षण-शिविरं सम्पन्नम्। मुख्यातिथिरूपेण विद्यालयस्य निदेशकः गौराङ्ग-साहू अवदत् यत् भारतीय-संस्कृतेः सुदृढी-करणाय संस्कृत-भाषायाः प्रयोगः अनिवार्यः अस्ति। संस्कृत-भाषायाः व्यवहारे प्रयोगस्य आवश्यकता वर्तते।

एतत् शिविरम् उत्तरप्रदेश-संस्कृत-संस्थानस्य निदेशकस्य प्रमेन्द्र-कुमार-गुप्तस्य कार्यकारी-अध्यक्षस्य मनीष-चौहानस्य च प्रयासेन आयोजितः। शान्ति-मन्त्रस्य प्रशिक्षणं प्रशिक्षिका राधा-रानी अकारयत्। कार्यक्रमस्य अध्यक्षतां कुर्वन्ती प्रधानाचार्या अर्चना-साहू अवदत् यत् संस्कृत-भाषा अस्माकं कृते अत्यन्तम् उपादेया अस्ति, अतः अस्माभिः सा अवश्यं अध्येतव्या। अस्माकं विद्यालये आयोजिते अस्मिन् शिविरे संस्थानेन प्रेषिता शिक्षिका आचार्या राधा-रानी द्वादश-दिनानि संस्कृत-भाषायाः शिक्षणम् अकरोत्। कार्यक्रमस्य सञ्चालनमपि प्रशिक्षिकया राधा-राण्या कृतम्।

अस्मिन् अवसरे महाविद्यालयस्य प्रबन्धकः सुशील-कुमारः, प्रबन्ध-समितेः सदस्या राधिका-साहू, निमित-जायसवालः, लीनू-अग्रवालः, नीतू-सिक्का तथा सर्वे शिक्षकाः, शिक्षार्थिनः, केन्द्राध्यक्षाः, अभिभावकाः, संस्कृतानुरागिणः, विद्वांसश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan