Enter your Email Address to subscribe to our newsletters

काठमांडूः, 25 जुलाईमासः (हि.स.)। नेपालसर्वकारेण एकरूप्यकमूल्यस्य नूतनमुद्रायाः अभिकल्पः सिद्धीकृतः। अस्यां मुद्रायां नेपालदेशस्य नूतनः विवादितः राजनैतिकमानचित्रः अङ्कितः अस्ति।
वित्तमन्त्रालयस्य अनुसारं मुद्रायाः नूतनाभिकल्पे देशस्य सम्पूर्णं राजनैतिकमानचित्रं तथा आकाशभैरवस्य चित्रमपि समावेशितम् अस्ति। अस्य प्रस्तावितस्य अभिकल्पस्य कार्यान्वयनात् पूर्वं अनुमोदनार्थम् आगामिन्यां मन्त्रिमण्डलोपवेशने प्रस्तोतुं सिद्धताः क्रियमाणाः सन्ति।
सर्वकारस्य उद्देश्यं राष्ट्रियपरिचयस्य सांस्कृतिकविरासतायाः च प्रतीकानां प्रदर्शनार्थं एतां नूतनमुद्रां प्रचलने आनयितुम् अस्ति। मन्त्रिमण्डलस्य अनुमोदनानन्तरं मुद्रायाः निर्माणकार्यं तस्याः प्रचलनप्रक्रिया च औपचारिकरूपेण प्रारभ्यते।
उल्लेखनीयं यत् अस्मात् पूर्वं नेपालीमाध्यमेषु वार्ता प्रकाशितासीत् यत् नेपालसर्वकारेण प्रस्तावितायाः एकरूप्यकमुद्रायाः विवादितमानचित्रं निष्कास्य तस्य स्थाने लो ग्याकर मठस्य चित्रस्य अनुमोदनं कृतम्। किन्तु अद्य आधिकारिकसूचनायां उक्तं यत् एकरूप्यकस्य नूतनमुद्रायां विवादितमानचित्राय एव स्थानं प्रदत्तम्।
अस्मिन् विवादितमानचित्रे लिम्पियाधुरा लिपुलेखः कालापानी च नेपालस्य भागरूपेण प्रदर्शिताः सन्ति। भारतनेपालदेशयोः मध्ये लिपुलेखः कालापानी लिम्पियाधुरा च अधिकृत्य दीर्घकालात् सीमाविवादः प्रवर्तते। नेपालस्य केपी शर्मा ओलेः नेतृत्वयुक्तया तत्कालीनसर्वकारेण मई २०२० तमे मासे एतत् विवादितमानचित्रं प्रकाशितम् आसीत् यस्मिन् कालापानी लिपुलेखः लिम्पियाधुरा च नेपालस्य भागरूपेण प्रदर्शिताः आसन्।----------
Hindusthan Samachar / Dheeraj Maithani