स्वस्था चर्चा लोकतन्त्रं सुदृढं करोति - राधाकृष्णनः
नवदेहली, २५ जुलाईमासः (हि.स.)। उपराष्ट्रपतिः राज्यसभायाः सभापतिश्च सी.पी. राधाकृष्णनः शनिवासरे उक्तवान् यत् स्वस्था चर्चा लोकतन्त्रं सुदृढं करोति, रचनात्मकः सहयोगश्च राष्ट्रं प्रगतिपथे अग्रे नयति। उपराष्ट्रपतिः अद्य राज्यसभायाः नवनिर्वाचितानां मनो
उपराष्ट्रपति एवं राज्यसभा के सभापति सीपी राधाकृष्णन के साथ अन्य लोग मौजूद।


नवदेहली, २५ जुलाईमासः (हि.स.)। उपराष्ट्रपतिः राज्यसभायाः सभापतिश्च सी.पी. राधाकृष्णनः शनिवासरे उक्तवान् यत् स्वस्था चर्चा लोकतन्त्रं सुदृढं करोति, रचनात्मकः सहयोगश्च राष्ट्रं प्रगतिपथे अग्रे नयति।

उपराष्ट्रपतिः अद्य राज्यसभायाः नवनिर्वाचितानां मनोनीतानां च सदस्यानां कृते आयोजितस्य द्विदिवसीयस्य अभिमुखीकरण-सह-प्रशिक्षण-कार्यक्रमस्य उद्घाटन-सत्रम् सम्बोधयन् आसीत्।

सदस्यानां दृष्टिकोणं दायित्वानि च रेखाङ्कयन् उपराष्ट्रपतिः अवदत् यत् चर्चा, विमर्शः अथवा व्यवधानमपि अन्ततः कस्यचित् निर्णयस्य रूपेण परिणेतव्यम्। सदने व्यतीतः प्रत्येकं दिवसः, प्रत्येकं होरा, प्रत्येकं निमेषं, प्रत्येकं क्षणश्च लोकतन्त्रस्य सुदृढीकरणाय एव विनियोजनीयः।

सभापतिः सदस्येभ्यः आग्रहं कृतवान् यत् ते सूचनापूर्णाभिः चर्चाभिः, सदनस्य नियम-प्रक्रियाणां सम्माननेन, प्रश्नकालस्य शून्यकालस्य च प्रभावी-उपयोगेन सदनस्य सर्वोच्च-परम्पराः अक्षुण्णाः धारयेयुः।

अस्मिन् अवसरे राज्यसभायाः उपसभापतिः हरिवंशेन सह अनेके प्रमुखजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan