Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 जुलाईमासः (हि.स.)।
शनिवासरे प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रमण्डलक्रीडा २०२६ स्पर्धायां पदकविजेतारं भारतीयं दिव्याङ्गभारोत्तोलकं झण्डूकुमारं हार्दिकाभिनन्दनं प्रादात्।
प्रधानमन्त्री मोदी सामाजिकमाध्यममञ्चे एक्स इत्यस्मिन् उक्तवान्, झण्डूकुमारस्य प्रदर्शनम् अत्युत्कृष्टम्। तेन पुरुषाणां गुरुभारवर्गीयायां दिव्याङ्गभारोत्तोलनस्पर्धायां कांस्यपदकं विजित्य राष्ट्रमण्डलक्रीडा २०२६ स्पर्धायां भारतस्य कृते प्रथमं पदकं प्राप्तम्। तस्मै हार्दिकाभिनन्दनानि। एषा तस्य उपलब्धिः तस्य असाधारणबलस्य दृढसङ्कल्पस्य वर्षानुवर्षं कृतायाः अनुशासितपरिश्रमस्य च उत्कृष्टमुदाहरणम् अस्ति। सर्वासां चुनौतीनां धैर्येण सामना कृत्वा अन्ताराष्ट्रियमञ्चे उत्कृष्टं प्रदर्शनं प्रदर्श्य तेन समग्रस्य राष्ट्रस्य गौरवं वर्धितम् तथा असंख्यान् भारतीयान् प्रेरितवान्।
उल्लेखनीयमस्ति यत् भारतीयः दिव्याङ्गभारोत्तोलकः झण्डूकुमारः शुक्रवासरे रात्रौ पुरुषाणां गुरुभारवर्गीयायां दिव्याङ्गभारोत्तोलनस्पर्धायां कांस्यपदकं विजित्य राष्ट्रमण्डलक्रीडासु भारतस्य कृते प्रथमं पदकम् अर्जितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani