Enter your Email Address to subscribe to our newsletters

कानपुरनगरम्, २५ जुलाईमासः (हि.स.)। राष्ट्रीय-शिक्षा-नीति-२०२० इत्यस्य उद्देश्यं विद्यार्थिनः केवलं सैद्धान्तिक-ज्ञानपर्यन्तं सीमितान् न स्थापयितुम्, अपितु तान् उद्योगानां वास्तविक-कार्यप्रणाल्या सह संयोज्य व्यावहारिकतया दक्षान् निर्मातुम् अस्ति। एतादृशानि औद्योगिक-भ्रमणानि विद्यार्थिषु आत्मविश्वासं, व्यावसायिक-अवगमनं, रोजगारोन्मुख-कौशलं च विकसितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। इति शनिवासरे छत्रपति-शाहू-जी-महाराज-विश्वविद्यालयस्य कुलपतिः प्रो. विनय-कुमार-पाठकः विद्यालयस्य स्कूल-ऑफ-होटल-मैनेजमेण्ट इत्यस्य विद्यार्थिनां औद्योगिक-भ्रमणस्य अवसरे उक्तवान्।
छत्रपति-शाहू-जी-महाराज-विश्वविद्यालयस्य स्कूल-ऑफ-होटल-मैनेजमेण्ट इत्यनेन प्रथमवर्षीय-विद्यार्थिनां कृते एकदिवसीय-औद्योगिक-भ्रमणस्य आयोजनम् अभवत्। भ्रमणकाले विद्यार्थिनः होटल-रिसॉर्ट-उद्योगस्य कार्य-प्रणालीं समीपतः अवगत्य विभिन्न-विभागानां सञ्चालनस्य व्यावहारिक-ज्ञानम् अलभन्त।
विद्यार्थिभ्यः फ्रण्ट-ऑफिसः, हाउस-कीपिङ्ग, फूड-एण्ड-बेवरेज्-सर्विस्, फूड-प्रोडक्शनम्, बैङ्क्वेट-सञ्चालनम्, अतिथि-सम्बन्ध-विभागः इत्यादीनां विभागानां भ्रमणं कारितम्। अस्मिन् अवसरे तेभ्यः अतिथि-सेवा, गुणवत्ता-प्रबन्धनम्, विभागीय-समन्वयः, आधुनिक-होटल-सञ्चालनस्य प्रक्रियाश्च विस्तरेण अवबोधिताः।
होटल-उद्योगस्य अधिकारिणः विद्यार्थिनः आतिथ्य-क्षेत्रे उपलब्धानां व्यावसायिक-अवसराणां, प्रशिक्षणावधि:, नियुक्ति:, कार्य-संस्कृतेः, उद्योगस्य वर्तमान-आवश्यकतानां च विषये अवगतवन्तः। तैः उक्तं यत् तांत्रिक-ज्ञानेन सह प्रभावी-संवाद-कौशलम्, अनुशासनम्, दल-कार्य-भावना, सकारात्मक-कार्यशैली च अस्मिन् क्षेत्रे सफलतायाः प्रमुखाः आधाराः सन्ति।
संवाद-सत्रे विद्यार्थिनः होटल-उद्योगसम्बद्धेषु विविध-विषयेषु विशेषज्ञैः सह चर्चां कृत्वा स्वजिज्ञासानां समाधानम् अलभन्त। कार्यक्रमस्य उद्देश्यं कक्षागत-अध्ययनेन सह व्यावहारिक-अनुभवं प्रदाय विद्यार्थिनः उद्योगस्य आवश्यकतानुरूपं सज्जितान् कर्तुम् आसीत्।
स्कूल-ऑफ-होटल-मैनेजमेण्ट इत्यस्य निदेशकः डॉ. सौरभ-त्रिपाठी अवदत् यत् विभागः विद्यार्थिनः रोजगारोन्मुखान् कर्तुं नियमितरूपेण औद्योगिक-भ्रमणानि, विशेषज्ञ-व्याख्यानानि, कार्यशालाः तथा कौशल-विकास-कार्यक्रमान् आयोजयति।
Hindusthan Samachar / Divya Ranjan