प्रोजेक्ट धड़कन इत्यस्य अंतर्गतानां बालानां जातं निशुल्कं हृदयपरिशीलनं , 1391 बच्चों की हुई स्क्रीनिंग
- एतावता52सहस्रोत्तर 1लक्षतः अधिकबालानां संजातं परीक्षणम्। रायपुरम्, 25 जुलाईमासः (हि. स.)। मुख्यमन्त्रिणः विष्णुदेवसायस्य निर्देशानुसारं रायपुरजनपदप्रशासनेन बालकानां स्वास्थ्यं प्राधान्येन स्वीकृत्य सञ्चाल्यमानस्य प्रोजेक्ट धडकन इत्यस्य अन्तर्
स्कूली बच्चों की निःशुल्क हृदय जांच करते डॉक्टर


- एतावता52सहस्रोत्तर 1लक्षतः अधिकबालानां संजातं परीक्षणम्।

रायपुरम्, 25 जुलाईमासः (हि. स.)। मुख्यमन्त्रिणः विष्णुदेवसायस्य निर्देशानुसारं रायपुरजनपदप्रशासनेन बालकानां स्वास्थ्यं प्राधान्येन स्वीकृत्य सञ्चाल्यमानस्य प्रोजेक्ट धडकन इत्यस्य अन्तर्गतं सम्पूर्णजिले विशेषस्वास्थ्यशिविराणाम् आयोजनं क्रियते। अस्य अभिनवप्रयत्नस्य उद्देश्यं बालकेषु जन्मजातहृदयरोगस्य समये एव परिचयं कृत्वा तेषां कृते उत्तमं निःशुल्कं च चिकित्सोपचारम् उपलब्धं कारयितुम् अस्ति।

समाहर्तुः डॉ. गौरवसिंहस्य मार्गदर्शने जनपदप्रशासनस्य श्रीसत्यसाईचिकित्सालयस्य च सहयोगेन अभनपुरदल बी इत्यनेन शासकीयउच्चविद्यालये कोलारग्रामे १३१ बालकानां, आरङ्गदल बी इत्यनेन शासकीयप्राथमिकविद्यालये बोहारडीहग्रामे ४८ बालकानां, धरसीवांदल बी इत्यनेन शासकीयमाध्यमिकविद्यालये धरमपुराग्रामे १२६ बालकानां, तिल्दादल बी इत्यनेन उच्चविद्यालये भूमियाग्रामे ३३६ बालकानां, अर्बनदल ए इत्यनेन पीएम श्री केन्द्रीयविद्यालये क्रमाङ्क १ रायपुरे २५० बालकानां, अर्बनदल बी इत्यनेन बिन्नीबाईसोनकरविद्यालये भाठाग्रामे २९४ बालकानां तथा अर्बनदल डी इत्यनेन उच्चविद्यालये तिलकनगरे गुडियारीक्षेत्रे २०६ बालकानां स्वास्थ्यपरीक्षणं कृतम्। सम्पूर्णजिले कुलम् १३९१ बालकानां परीक्षणं सम्पन्नम्।

अस्य परियोजनायाः अन्तर्गतं अधुना यावत् सम्पूर्णजिले १ लक्ष ५२ सहस्राधिकबालकानां स्वास्थ्यपरीक्षणं सम्पन्नम्। तथा च १४ बालकानां चिकित्सोपचारः प्रबन्धनं च कृतम्, १८ बालकानां निःशुल्कशल्यचिकित्सा अपि सफलतया सम्पन्ना।

---------------

Hindusthan Samachar / Dheeraj Maithani