Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ जुलाईमासः (हि.स.)। लोकसभायाः प्रतिपक्षनेता राहुलगान्धी शनिवासरे पुनरेकवारम् आन्दोलनरताभिः छात्राभिः सह पत्रकार-वार्तां कृतवान्। अद्य तेन सह तिस्रः छात्र्यः आसन्, या: आरक्षक-कार्यवाह्यां आहता: जाता:। राहुलगान्धी छात्रीभिः सह क्षतिपूर्तेः, क्षमायाचनायाः तथा त्यागपत्रस्य इति स्वस्य तिस्रः याचना: पुनरपि पुनरुक्तवान्।
राहुलगान्धी अत्र सोनियागान्धे: आवासस्य बहिः उक्तवान् यत् छात्राणां प्रथमा याचना अस्ति यत् केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रप्रधानः मन्त्रीमण्डलात् निष्कास्यताम्। तं अन्यस्मिन् मन्त्रालये नियोक्तुं न स्वीकर्तुं शक्यते। तेन मन्त्रिपदात् त्यागपत्रं दातव्यमेव। राहुलगान्धी उक्तवान् यत् धर्मेन्द्रप्रधानः भ्रष्टाचारस्य शिक्षाव्यवस्थायाः पतनस्य च प्रतीकः जातः अस्ति, तस्य पदस्थे सति देशस्य बालकानां भविष्यं सुरक्षितं न भविष्यति।
द्वितीयायाः याचनायाः विषये राहुलगान्धी उक्तवान् यत् तेभ्य: आरक्षककर्मिणः: अधिकारिभ्य: च दण्डः विधातव्यः, येषां आदेशेन छात्रेषु दण्डप्रहारः कृतः, पैलेट्-भुषूण्डिकाया: उपयोगश्च अभवत्। स्वसमीपे स्थितां आहतां छात्रीं निर्दिशन् सः अवदत् यत् सहस्रशः छात्राः सन्ति येषां हस्तपादाः भग्नाः, नेत्रयोः दृष्टिरपि नष्टा। ये एतां हिंसां कृतवन्तः, आयोजकाः स्युः अथवा प्रत्यक्षकर्तारः, ते सर्वे उत्तरदायिनः कर्तव्याः।
तृतीयायाः याचनायाः रूपेण राहुलगान्धी उक्तवान् यत् प्रधानमन्त्री छात्रेभ्यः देशस्य भविष्याय च क्षमां याचेत्। प्रधानमन्त्री सम्पूर्णस्य व्यवस्थातन्त्रस्य प्रमुखः अस्ति, छात्रैः सह यत् किञ्चित् अभवत् तस्य उत्तरदायित्वम् अपि तस्यैव अस्ति। एताः तिस्रः याचना: छात्राणां पक्षतः प्रस्तुताः सन्ति, तासु कस्यापि प्रकारस्य सन्धे: स्थानं नास्तीति सः अवदत्।
राहुलगान्धी उक्तवान् यत् देशस्य युवानः संविधानस्य संस्थानां च रक्षणार्थं तिष्ठन्ति इति ज्ञात्वा सः गौरवं अनुभवति। सर्वकारः छात्रेषु आक्रमणं करोति, तान् भयभीतान् करोति, तेषां भविष्यं च विनाशयति।
उल्लेखनीयं यत् गतदिनेऽपि राहुलगान्धी पत्रकारान् सम्बोधितवान्। तदा सः २० जुलाईमासे आहतं छात्रम् अग्रे उपस्थित्य दर्शितवान्, यस्य नेत्रम् पैलेट्-भुषूण्डिप्रहारेण आहतम् अभवत्।
अतीतेषु त्रिषु दिवसेषु राहुलगान्धी अस्मिन् विषये निरन्तरं सक्रियः आसीत्। ततः पूर्वं २२ जुलाईमासे सः पत्रकार-वार्तायां विवरणानि प्रस्तूय उक्तवान् यत् गतदशवर्षेषु देशे १५२ प्रश्नपत्राणां प्रस्रवण-घटनाः अभवन्, येन प्रायः ७.५ कोटि-छात्राणां भविष्यं प्रभावितम्। तस्मिन्नेव दिने सः प्रधानमन्त्री-आवासस्य बहिः समानान्तर-धरनाम् अपि कृतवान्, यत्र आरक्षकै: सः निरुद्धः। २३ जुलाईमासे राहुलगान्धी इण्डी-गठबन्धनस्य सांसदैः सह गान्धी-स्मृतौ दीपयात्रां शान्तिपूर्ण-प्रदर्शनं च कृतवान्।
अस्य विवादस्य प्रारम्भः २० जुलाईमासे अभवत्, यदा कॉकरोच जनता पार्टी इत्यस्य नेतृत्वे छात्रैः संसद्-शोभायात्रा आयोजिता। शान्तिपूर्णं प्रदर्शनं कुर्वतां छात्राणां निरोधनार्थं आरक्षकै: दण्डप्रहारः कृतः, अश्रुवाति-गोलकानि प्रक्षिप्तानि, कथञ्चित् पैलेट्-भुषूण्डिकाया: उपयोगोऽपि कृतः। अस्मिन् शताधिकाः छात्राः तथा अनेके आरक्षककर्मिणः आहताः अभवन्।
अपरतः केन्द्रीय-सर्वकारेण प्रश्नपत्र-प्रस्रवण-निवारणार्थं नूतनः विधिः अनुमोदितः। अस्मिन् विधौ दोषिभ्यः शीघ्र-न्यायालयस्य माध्यमेन त्रिमासाभ्यन्तरे दण्डनिर्णयस्य व्यवस्था कृता अस्ति। दोषिणः दशवर्षपर्यन्तं कारावासदण्डेन, दश-कोटि-रूप्यकपर्यन्तं दण्डराश्या च दण्डनीयाः भविष्यन्ति। सर्वकारस्य कथनम् अस्ति यत् एषः उपायः छात्रहिताय शिक्षाव्यवस्थायाः पारदर्शितावर्धनाय च आवश्यकः अस्ति।
Hindusthan Samachar / Divya Ranjan