Enter your Email Address to subscribe to our newsletters

अभिनेता यश नितेशतिवारीनिर्देशिते बहुप्रतीक्षिते रामायणचलच्चित्रे रावणस्य भूमिकां स्वकीयजीवनस्य सर्वाधिकपरिस्थितौ पूर्णपात्रेषु अन्यतमाम् इति वर्णितवान्।
सैन डिएगो कॉमिक कॉन इत्यस्मिन् आयोजने चलच्चित्रदलस्य सह उपस्थितः यश उक्तवान् यत् रामायणम् केवलम् सत्कर्मणः दुष्कर्मणश्च कथा नास्ति अपि तु भिन्नयोः विचारधारयोः जीवनयात्रयोः च चित्रणम् अस्ति। तस्य मते भगवान् रामस्य रावणस्य च जीवनयात्रयोः विद्यमानः भेदः एव एतां महागाथां सर्वेषु कालेषु प्रासङ्गिकीं करोति।
यश उक्तवान् यत् भगवान् रामः स्वीयैः आदर्शैः धैर्येण सत्कर्मभिः च सर्वम् अलभत। परन्तु रावणः स्वबलस्य ज्ञानस्य च प्राचुर्यम् अस्ति अपि अहङ्कारस्य प्रतिशोधस्य च कारणेन स्वस्य पतनं स्वयमेव निश्चितवान्। तेन उक्तं यत् यदा भवान् कस्यचित् राक्षसस्य विरुद्धं युद्धं करोति तदा एतदपि चिन्तनीयम् यत् स्वयम् तस्मात् अपि महान् राक्षसः मा भूयात्।
यशस्य मते रावणः केवलः सामान्यः खलनायकः नासीत् अपि तु सः महान् विद्वान् शक्तिसम्पन्नः अनेककलानां ज्ञाता च आसीत्। तथापि सः स्वशक्तेः अहङ्कारस्य च उपरि नियन्त्रणं कर्तुं न अशकत्। एतदेव तं विनाशस्य मार्गे नीतवान्।
यश अवदत् यत् बाल्यकालादेव तस्य रामायणेन सह गाढः सम्बन्धः अस्ति। तेन उक्तं यत् तस्य पितामहः तस्मै रामायणस्य कथाः श्रावयति स्म। ताभिः कथाभिः तस्य अन्तःकरणे अस्याः महागाथायाः विशिष्टा कल्पना निर्मिता। रावणस्य भूमिकायाः सिद्धतिं अधिकृत्य तेन उक्तं यत् तस्य उद्देश्यं पात्रस्य नूतनरूपनिर्माणं नासीत् अपि तु तस्य विचारधारां तस्य निर्णयानां पृष्ठस्थां प्रेरणां च अवगन्तुम् आसीत्। तेन निर्देशकस्य नितेशतिवारिणः लेखकानां च प्रशंसा कृता तथा उक्तं यत् तैः रावणस्य चरित्रस्य गम्भीरावगमने तस्य पर्याप्तं साहाय्यं कृतम्।
Hindusthan Samachar / Dheeraj Maithani