Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, २५ जुलाईमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः शनिवासरे कारगिल-विजय-दिवस-समारोहे सहभागितायै श्रीनगरम् आगतः। अत्र विमानस्थानके जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा रक्षामन्त्रिणः स्वागतं कृतवान्।
अधिकारिभिः उक्तं यत् रक्षामन्त्री राजनाथसिंहः द्विदिवसीय-लद्दाख-भ्रमणाय आगतः, यत्र सः २७तमे कारगिल-विजय-दिवस-समारोहे सहभागं करिष्यति।
अधिकारिणां अनुसारं रक्षामन्त्री वायुमार्गेण प्रत्यक्षं द्रास-नगरम् गन्तुम् अर्हति स्म, किन्तु दुर्वातावरणस्य कारणात् हेलिकॉप्टरविमानं न उड्डयितुं अशकत्। ततः परं रक्षामन्त्री स्थलमार्गेण द्रास-नगराय प्रस्थितः। द्रास-नगरे शनिवासरात् द्विदिवसीयः कारगिल-विजय-दिवस-समारोहः प्रारभ्यते।
Hindusthan Samachar / Divya Ranjan