राज्यसभायाः नूतनेभ्यस्सदस्येभ्यः 'प्रारंभ' कार्यक्रमस्य शुभारंभः, सीपी राधाकृष्णन् अददात् संसदीय दायित्वानां मंत्रम्
नव दिल्ली, 25 जुलाईमासः (हि.स.)। राज्यसभायाः सभापतिः सीपी राधाकृष्णन उक्तवान् यत् विचारेषु मतभेदाः स्वाभाविकाः सन्ति किन्तु सर्वेषां सदस्याणां प्रतिबद्धता संविधानस्य जनतायाश्च प्रति भवितव्या। तेन उक्तं यत् वादविवादः चर्चा अथवा व्यवधानमपि निर्णयोन
राज्य सभा के सभापति सीपी राधाकृष्णन


नव दिल्ली, 25 जुलाईमासः (हि.स.)।

राज्यसभायाः सभापतिः सीपी राधाकृष्णन उक्तवान् यत् विचारेषु मतभेदाः स्वाभाविकाः सन्ति किन्तु सर्वेषां सदस्याणां प्रतिबद्धता संविधानस्य जनतायाश्च प्रति भवितव्या। तेन उक्तं यत् वादविवादः चर्चा अथवा व्यवधानमपि निर्णयोन्मुखं भवेत्। केवलं व्यवधानार्थं कृतं व्यवधानं लोकतान्त्रिकस्य उद्देश्यस्य पूर्तिं न करोति।

सः शनिवासरे राज्यसभायाः २०२६ वर्षस्य द्विवार्षिकनिर्वाचनेषु निर्वाचितानां मनोनीतानां च नवीनसदस्यानां कृते आयोजितं द्विदिवसीयं विषयबोधकार्यक्रमं प्रारम्भ इत्यस्य उद्घाटनसमारोहे सम्बोधनम् अकरोत्। अस्मिन् कार्यक्रमे उपसभापतिः हरिवंशः राज्यसभायाः महासचिवः पीसी मोदी सांसदाः राज्यसभासचिवालयस्य वरिष्ठाधिकारिणः च उपस्थिताः आसन्।

नवीनसदस्यान् अभिनन्दन् सीपी राधाकृष्णन उक्तवान् यत् अस्मिन् समये ६७ सदस्याः प्रथमवारं राज्यसभाम् आगताः। विविधराज्यानां प्रतिनिधित्वं कुर्वन्तः सदस्याः समानलक्ष्येन सम्बद्धाः सन्ति। तेन उक्तं यत् वयं एकेन दस्तावेजेन अर्थात् अस्माकं संविधानेन एकेन दृष्टिकोणेन अर्थात् राष्ट्रं प्रथमम् एकेन लक्षेण अर्थात् विकसितभारतम् इत्यनेन एकीकृताः स्मः।

सभापतिना प्रश्नकालः शून्यकालश्च सांसदानां कृते अत्यन्तमहत्त्वपूर्णौ इति उक्तम्। तयोः गरिमारक्षणं सर्वेषां दायित्वम् इति तेन प्रतिपादितम्। तेन नियमसंख्या २६७ इत्यस्य उल्लेखः कृतः तथा च उक्तं यत् अस्य प्रयोगः केवलं दुर्लभतमासु परिस्थितिषु सदनस्य व्यापकसहमत्याः आधारेण एव कर्तव्यः।

जनप्रतिनिधीनां भूमिकामधिकृत्य तेन उक्तं यत् निर्वाचनानि मतैः जयन्ते किन्तु सम्मानः जनसेवया अर्ज्यते। तेन उक्तं यत् प्रत्येकनीतिः प्रत्येकः प्रश्नः प्रत्येकः विधेयकः प्रत्येकः वादविवादः च लक्षशः जनानां जीवने परिवर्तनम् आनेतुं समर्थः अस्ति।

स्वस्य संसदीयानुभवान् संस्मरन् राधाकृष्णन अवदत् यत् लोकसभासदस्यत्वकाले वस्त्रसम्बद्धायां संसदीयोपसमितौ तेन प्रदत्तानां सुझावानामाधारेण प्रौद्योगिकीउन्नयननिधियोजना प्रवर्तिता या वस्त्रोद्योगस्य आधुनिकीकरणे महत्त्वपूर्णां भूमिकां निर्व्यूढवती। तेन उक्तं यत् लघ्वपि संसदीयहस्तक्षेपः दूरगामिनं नीतिगतपरिवर्तनम् आनेतुं शक्नोति।

तेन सांसदेभ्यः संसदीयनियमानां विधायिकाप्रक्रियायाः राजस्वकार्यवाह्याः समितीनां कार्यप्रणाल्याः च गम्भीरम् अध्ययनं कर्तुम् आह्वानं कृतम्। तेन उक्तं यत् अस्मिन् विषयबोधकार्यक्रमे डिजिटलप्रौद्योगिकी कृत्रिमबुद्धिमत्ता च इत्येतयोः विषये विशेषसत्राणि समावेशितानि सन्ति। तेन उक्तं यत् वाणीसेतु इत्यादयः कृत्रिमबुद्धिमत्ताधारितोपकरणानि अधुना राज्यसभायां बहुभाषासु त्वरितभाषानुवादस्य सुविधां प्रददति।

स्वसम्बोधनस्य अन्ते सीपी राधाकृष्णन सर्वेभ्यः नवीनसदस्येभ्यः सफलसंसदीयजीवनस्य राष्ट्रसेवायाश्च शुभकामनाः प्रदत्तवान्।

उपसभापतिः हरिवंशः स्वागतभाषणे उक्तवान् यत् नवीनाः सांसदाः तादृशे काले संसदम् आगताः यदा देशः अमृतकालम् प्रविष्टः अस्ति तथा विकसितभारतम् २०४७ इत्यस्य लक्ष्यस्य सिद्धौ तेषां महत्त्वपूर्णा भूमिका भविष्यति। तेन उक्तं यत् सांसदानां दायित्वं सर्वकारं उत्तरदायिनं कर्तुम् जनहितस्य विषयान् उत्थापयितुम् रचनात्मकसमालोचनां कर्तुम् विधेयकेषु सार्थकान् परामर्शान् दातुं च अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani