Enter your Email Address to subscribe to our newsletters

– सारनाथः भारतस्य ४५तमं, उत्तरप्रदेशस्य चतुर्थं विश्वधरोहर-स्थलं जातम्
लखनऊनगरम्, २५ जुलाईमासः (हि.स.)। प्रायः अष्टाविंशति-वर्षीय-दीर्घ-प्रतीक्षा-नन्तरं भगवत: बुद्धस्य प्रथम-धर्मदेशना-स्थलं सारनाथम् यूनेस्को-विश्वधरोहर-सूच्यां स्थानं प्राप्तवत्। अनेन सह सारनाथः भारतस्य ४५तमं तथा उत्तरप्रदेशस्य चतुर्थं विश्वधरोहर-स्थलं जातम्। पर्यटन-संस्कृति-मन्त्री जयवीर-सिंहः एषा उत्तरप्रदेशस्य सांस्कृतिक-परम्पराया: ऐतिहासिकी उपलब्धिः इति अवदत्। दक्षिणकोरियादेशस्य बुसान-नगरे आयोजिते यूनेस्को-विश्वधरोहर-समितेः अष्टचत्वारिंशत्तमे अधिवेशने शनिवासरे एषा ऐतिहासिकी घोषणा कृता। अस्याः उपलब्धेः अनन्तरं बौद्धधर्मस्य पवित्रतमेषु स्थलेषु अन्यतमं सारनाथं वैश्विक-परम्परायाः सर्वोच्च-मञ्चे नूतनाम् अभिज्ञानं प्राप्तवति। एतेन उत्तरप्रदेशस्य बौद्ध-परिपथाय अन्ताराष्ट्रिय-पर्यटनस्य सांस्कृतिक-परम्परायाश्च मानचित्रे नूतना दृढता प्राप्स्यते इति अपेक्षा व्यक्ता।
सारनाथम् ३ जुलाई १९९८ दिनाङ्के यूनेस्को-संभाव्य-सूच्यां समाविष्टम् आसीत्। प्रायः अष्टाविंशति-वर्षानन्तरं प्राप्ता एषा मान्यता उत्तरप्रदेशस्य कृते अपि विशेषमहत्त्वपूर्णा अस्ति। अद्यावधि राज्यस्य त्रीणि विश्वधरोहर-स्थलानि—ताजमहलः, आगरा-दुर्गः, फतेहपुर-सीकरी च—आगरा-प्रदेशपर्यन्तमेव सीमितानि आसन्। सारनाथस्य समावेशेन उत्तरप्रदेशस्य विश्वधरोहर-परिचयः पूर्वाञ्चल-प्रदेशपर्यन्तं विस्तारितः अस्ति। अनेन राज्यस्य समृद्धा बौद्ध-विरासता वैश्विक-मान्यता प्राप्तवती।
चौखण्डी-स्तूपः तथा धामेक-स्तूपः
यूनेस्को-मान्यताप्राप्तायां अस्यां विश्वधरोहर-सम्पत्तौ चौखण्डी-स्तूपः तथा सारनाथस्य पुरातात्त्विक-अवशेषाः अन्तर्भवन्ति। एते स्थले परस्परं प्रायः ६२६ मीटर-दूरस्थौ स्तः। चौखण्डी-स्तूपः भगवान् बुद्धस्य तस्य पञ्च-प्रथम-शिष्यैः सह मिलनस्य स्मृतिचिह्नम् अस्ति। पुरातात्त्विक-परिसरे धामेक-स्तूपः, धर्मराजिका-स्तूपः, प्राचीन-विहाराणाम् अवशेषाः तथा अशोक-स्तम्भः इत्यादयः महत्त्वपूर्णाः स्मारकाः सन्ति।
मन्त्री जयवीर-सिंहः अवदत्— “अष्टाविंशति-वर्षीय-प्रतीक्षानन्तरं सारनाथस्य यूनेस्को-विश्वधरोहर-मान्यताप्राप्तिः ऐतिहासिकी उपलब्धिः अस्ति। अनेन उत्तरप्रदेशस्य बौद्ध-परिपथः वैश्विकस्तरे नूतनाम् अभिज्ञानं गतिं च प्राप्स्यति। सहैव प्रदेशस्य शान्तेः, आध्यात्मिकतायाः, सांस्कृतिक-समावेशितायाश्च सन्देशः विश्वस्य विस्तृततर-समाजपर्यन्तं प्राप्स्यति।”
Hindusthan Samachar / Divya Ranjan