राष्ट्रमण्डल-क्रीडा-२०२६ - भारतीय-क्रीडकान् चतुर्विंशतिहोरा: सज्जितान् स्थापयति भारतीय-ओलम्पिक-सङ्घस्य चिकित्सकदलम्
ग्लासगोनगरम्, २५ जुलाईमासः (हि.स.)। राष्ट्रमण्डल-क्रीडा-२०२६ प्रतियोगितासु यदा भारतीय-क्रीडकाः स्पर्धाक्षेत्रे अवतरन्ति, तदा सर्वेषां दृष्टिः तेषां प्रदर्शनं प्रति भवति। किन्तु तेषां पृष्ठतः एकं चिकित्सकदलम् अपि निरन्तरं कार्यरतं वर्तते, यत् तान् श
भारतीय खिलाड़ियों को 24 घंटे तैयार रख रही आईओए की मेडिकल टीम


ग्लासगोनगरम्, २५ जुलाईमासः (हि.स.)। राष्ट्रमण्डल-क्रीडा-२०२६ प्रतियोगितासु यदा भारतीय-क्रीडकाः स्पर्धाक्षेत्रे अवतरन्ति, तदा सर्वेषां दृष्टिः तेषां प्रदर्शनं प्रति भवति। किन्तु तेषां पृष्ठतः एकं चिकित्सकदलम् अपि निरन्तरं कार्यरतं वर्तते, यत् तान् शारीरिकतया मानसिकतया च पूर्णतया सज्जितान् स्थापयति। भारतीय-ओलम्पिक-सङ्घस्य चिकित्सकदलम् क्रीडकेभ्यः विश्वस्तरीय-चिकित्सासुविधां, भौतिकचिकित्सां, शीघ्र-पुनर्प्राप्ति-व्यवस्थां, आघात-प्रबन्धनं च प्रदाय भारतीयदलस्य अभियानं सुदृढं करोति।

आधुनिक-क्रीडासु केवलं प्रतिभा एव सफलतायाः प्रत्याभूतिः न भवति। निरन्तर-प्रतियोगितानां मध्ये क्रीडकानां पुनर्प्राप्तिः, पुनर्वसनम्, क्रीडाविज्ञानस्य भूमिका च समानरूपेण महत्त्वपूर्णा अभवत्। एतस्यैव दृष्टेः अनुसारेण आईओए-चिकित्सकदलम् क्रीडकाणां ग्लासगो-नगरम् आगमनस्य प्रथमदिनादारभ्य तैः सह कार्यरतं वर्तते।

आईओए-चिकित्सकदलस्य नेतृत्वं प्रख्यातः अस्थिरोग-विशेषज्ञः डॉ. दिनशॉ-पारदीवाला करोति। तेन सह भौतिकचिकित्सकाः सुमंश-सिवालंका, क्रिस-पेड्रा, देबाशीष-दासश्च क्रीडकाणां पुनर्प्राप्तेः, लघ्वाघातानां चिकित्सायाः, स्पर्धायोग्यतायाः संरक्षणस्य च दायित्वं वहन्ति। डॉ. पारदीवाला अवदत् यत् दल-प्रबन्धकेभ्यः चिकित्सकदलस्य उपस्थितिः क्रीडकाणाम् आत्मविश्वासं वर्धयति इति श्रुत्वा तस्य परमः सन्तोषः भवति।

अस्मिन् वर्षे ग्लासगो-नगरे क्रीडकानां कृते केन्द्रीय-क्रीडक-ग्रामः नास्ति। भारतीयदलस्य निवासव्यवस्था त्रिषु पृथक्-होटल-इत्येतेषु कृता अस्ति। अतः आईओए-सङ्घेन मर्क्योर-होटल-इत्यत्र मुख्य-चिकित्साकेन्द्रं स्थापितम्, चिकित्सा-कर्मिणश्च सर्वेषु निवासस्थलेषु नियुक्ताः, येन क्रीडकाः कदापि त्वरित-चिकित्सासाहाय्यं प्राप्नुयुः।

डॉ. पारदीवाला अवदत् यत् कठिन-प्रशिक्षणस्य स्पर्धायाः अनन्तरं क्रीडकाणां मुखेषु पुनः स्मितं दृष्ट्वा तस्मै महान् आनन्दः भवति। आईओए-चिकित्सक-दलम् तेषामपि क्रीडकानां चिकित्सा-साहाय्यं करोति, येषां सह पृथक् चिकित्सकः अथवा भौतिकचिकित्सकः नास्ति। तरण-क्रीडा तथा व्यायाम-कौशल-क्रीडा इत्यादीनां लघुदलानि पूर्णतया अस्य केन्द्रीय-चिकित्सा-केन्द्रस्य उपरि आश्रितानि सन्ति।

भारतीय-ओलम्पिक-सङ्घस्य मते कस्यापि पदकस्य पृष्ठतः केवलं क्रीडकस्य प्रदर्शनम् एव न भवति, अपितु प्रशिक्षकाः, चिकित्सकाः, भौतिक-चिकित्सकाः, पोषण-विशेषज्ञाः, दल-प्रबन्धकाः, व्यवस्थापन-कर्मचारिणश्च समग्र-सहयोग-तन्त्रस्य परिश्रमः अपि तत्र निहितः भवति। सङ्घस्य मतानुसारं राष्ट्रमण्डल-क्रीडासु सफलता केवलं पदकैः न अनुमीयते, अपितु प्रत्येकस्य क्रीडकस्य पृष्ठतः दृढं सहयोगीदलं सर्वदा तिष्ठति इति विश्वासेनापि अनुमीयते।

Hindusthan Samachar / Divya Ranjan