सोनम-वाङ्चुकस्य प्रसारित-चलचित्र-विषये सफदरजङ्ग-चिकित्सालयस्य स्पष्टीकरणम्, उच्चन्यायालयस्य लिखितादेशात् पूर्वं ध्वन्यङ्कितमिदं चलचित्रम् इति उक्तम्
नवदेहली, २५ जुलाईमासः (हि.स.)। पर्यावरणविदः सोनम-वाङ्चुकस्य चिकित्सालयसम्बद्धस्य प्रसारित-चलचित्रस्य विषये शनिवासरे सफदरजङ्ग-चिकित्सालय-प्रशासनेन स्वपक्षः प्रस्तुतः। प्रशासनम् अवदत् यत् एतत् चलचित्रम् उच्चन्यायालयस्य लिखितादेशस्य चिकित्सालये प्राप्
सोनम वांगचुक यांचा संग्रहित फोटो


नवदेहली, २५ जुलाईमासः (हि.स.)। पर्यावरणविदः सोनम-वाङ्चुकस्य चिकित्सालयसम्बद्धस्य प्रसारित-चलचित्रस्य विषये शनिवासरे सफदरजङ्ग-चिकित्सालय-प्रशासनेन स्वपक्षः प्रस्तुतः। प्रशासनम् अवदत् यत् एतत् चलचित्रम् उच्चन्यायालयस्य लिखितादेशस्य चिकित्सालये प्राप्तेः पूर्वं ध्वन्यङ्कितम् आसीत्।

चिकित्सालयेन प्रकाशितस्य वक्तव्यस्य अनुसारम् एतत् चलचित्रम् २१ जुलाई २०२६ दिनाङ्के चिकित्सालय-परिसरस्य तस्मिन् भागे ध्वन्यङ्कितम्, यत्र चलचित्र-निर्माणं निषिद्धम् अस्ति। प्रशासनस्य कथनम् अस्ति यत् एतत् चलचित्रं कथितरूपेण सोनम-वाङ्चुकस्य सहयोगिभिः निर्मितम्, अनन्तरं सार्वजनिकीकृतम्। प्रशासनस्य कथनम् अस्ति यत् चलच्चित्रस्य ध्वन्यङ्कनसमये देहली-उच्चन्यायालयस्य लिखितादेशः चिकित्सालय-प्रशासनाय अद्यापि न प्राप्तः आसीत्।

चिकित्सालय-प्रशासनेन उक्तं यत् २१ जुलाईमासस्य सायंकाले उच्चन्यायालयस्य लिखितादेशः प्राप्तः। ततः अनन्तरं सम्पूर्णा प्रक्रिया नियमानुसारं सम्पन्ना। तस्मिन्नेव दिने सायं ६:४० वादने सोनम-वाङ्चुकः गुरुग्रामस्थितस्य मेदान्ता-चिकित्सालयस्य वैद्यदलाय समर्पितः।

उल्लेखनीयं यत् प्रसारिते चलच्चित्रे सोनम-वाङ्चुकः चिकित्सालयात् बहिर्गन्तुं निरुद्धः दृश्यते। तत्र सः आरक्षकान् प्रति गृहनिरोधस्य आरोपं कुर्वन् दृश्यते।

अपरतः सोनम-वाङ्चुकस्य पत्नी गीताञ्जलि-अगमो एक्स इत्यस्मिन् समाजमाध्यमे प्रकाशिते सन्देशे अनेकान् प्रश्नान् उत्थापितवती। तस्याः आरोपः अस्ति यत् मेदान्ता-चिकित्सालयस्य मुख्यद्वारे, स्वागतकक्षे, सघन-चिकित्सा-कक्षस्य बहिश्च आरक्षकाः उपस्थिताः सन्ति, ते एव निर्धारयन्ति यत् के तया सह मिलितुं शक्नुवन्ति, के च न।

सा प्रश्नम् उत्थापितवती यत् यदि न्यायालयेन स्पष्टतया उक्तं यत् सोनम-वाङ्चुकः निग्रहे नास्ति, तर्हि जनानां साक्षात्कारं प्रति आरक्षकाः केन अधिकारिणा नियमनं कुर्वन्ति? लोकतान्त्रिक-व्यवस्थायां आरक्षकाणां दायित्वं नागरिकाणां सुरक्षां विधेः पालनं च सुनिश्चितं कर्तुम्, न तु सत्तास्थित-जनानां पक्षतः नागरिकान् नियन्त्रयितुम्। एते प्रश्नाः सन्ति, येषां विषये प्रत्येकं भारतीयेन चिन्तनीयम्।

Hindusthan Samachar / Divya Ranjan