Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ जुलाईमासः (हि.स.)। भारतीयः तीव्रगोलकक्षेपकः यश-ठाकुरः जिम्बाब्वे-देशस्य प्रवासाय प्रथमवारं भारतीय-टी-२०-दले स्वस्य चयनं स्वजीवनस्य अविस्मरणीयतमः क्षणः इति वर्णयन् अवदत् यत् देशस्य कृते क्रीडनं प्रत्येकं क्रिकेट-क्रीडकस्य स्वप्नम् अस्ति, भारतीय-दलस्य गणवेशस्य धारणं च तस्य बहुवर्षीय-परिश्रमस्य फलम् अस्ति।
तेन भारतीय-टी-२०-दलस्य नायकस्य श्रेयस-अय्यरस्य नेतृत्वस्य अपि मुक्तकण्ठेन प्रशंसा कृता। सः तम् “गोलकक्षेपकाणां नायकः” इति अभिहितवान्। विदर्भ-दलस्य तथा पञ्जाब-किङ्ग्स-दलस्य तीव्रगोलकक्षेपकः यश-ठाकुरः जिम्बाब्वे-प्रवासाय प्रथमवारं भारतीय-दले स्थानं प्राप्तवान्। तेन सह अशोक-शर्मा अपि राष्ट्रीय-दले समाविष्टः। तथापि यश-ठाकुराय अद्यापि भारतीय-दलस्य पक्षतः प्रथम-क्रीडनस्य अवसरः न प्राप्तः।
जियोस्टार-माध्यमेन सह वार्तालापे यश-ठाकुरः अवदत् यत् नागपुर-नगरम् आगमनानन्तरमेव स्वचयनस्य सूचना तेन प्राप्ता। सः अवदत्—“अहं मम विदर्भ-दलस्य सहक्रीडकः हर्ष-दुबे च नागपुरम् आगतवन्तौ। वस्तूनि गृहीत्वा बहिर्गच्छन् एव मम दूरवाण्यां निरन्तरं दूरवाणी-सम्पर्काः सन्देशाश्च आगन्तुम् आरब्धवन्तः। मित्राणि दूरवाण्या अभिनन्दनं कृत्वा अवदन् यत् मम भारतीय-दले चयनम् अभवत्। पूर्वं मम एतस्य विषये काचिदपि सूचना नासीत्। अन्तर्जाले निरीक्षणानन्तरमेव जिम्बाब्वे-प्रवासाय मम नाम चयनितम् इति मया विश्वसितम्। सः अनुभवः शब्दैः वर्णयितुं न शक्यते।”
यश-ठाकुरः अवदत् यत् स्वक्रीडाजीवने प्रत्येकस्मिन् स्तरे कठोरः परिश्रमः तेन कृतः। अण्डर-१९-क्रीडातः आरभ्य रणजी-ट्रॉफी, दलीप-ट्रॉफी, आईपीएल, इण्डिया-ए-दलम्, अन्ते भारतीय-दलम् इति तस्य यात्रा सुकरा नासीत्। प्रत्येकस्मिन् स्तरे बहव्य: समस्या: प्राप्ताः, किन्तु ता: अतिक्रम्य भारतीय-दलपर्यन्तं प्राप्तिः तस्य कृते गौरवस्य विषयः अस्ति। गृह-क्रिकेट-प्रतियोगितासु तस्य प्रदर्शनम् अत्युत्तमम् आसीत्।
गत-सत्रस्य सैयद-मुश्ताक-अली-ट्रॉफी-प्रतियोगितायां सः सप्तसु स्पर्धासु अष्टादश-विकेट् प्राप्तवान् तथा सर्वाधिक-विकेट्-प्राप्त-गोलकक्षेपकेषु तृतीयं स्थानम् अलभत। अस्मिन् काले तस्य श्रेष्ठं प्रदर्शनं षोडश-धावनाङ्कान् दत्त्वा पञ्च-विकेट्-प्राप्तिः आसीत्। ततः विजय-हजारे-ट्रॉफी-प्रतियोगितायां नवसु स्पर्धासु एकोनविंशति-विकेट् प्राप्य विदर्भ-दलाय प्रथमवारं विजेतृपदम् प्राप्तुं महत्त्वपूर्णं योगदानम् अददात्।
अन्तिम-स्पर्धायामपि सौराष्ट्र-दलस्य विरुद्धं तेन उत्कृष्टं गोलकक्षेपणं कृतम्। श्रेयस-अय्यरेण सह स्वस्य सामञ्जस्यविषये यश-ठाकुरः अवदत् यत् आईपीएल-प्रतियोगितायां पञ्जाब-किङ्ग्स-दलस्य कृते क्रीडातः उभयोः मध्ये उत्तमं परस्पर-अवगमनम् अभवत्।
सः अवदत्—“श्रेयस-अय्यरः मम सामर्थ्यं सम्यक् जानाति। सः जानाति यत् पावरप्ले-काले, मध्य-ओवरेषु, डेथ-ओवरेषु वा अहं कुत्र अधिकं प्रभावकारी भवामि। आईपीएल-काले वयं बहुवारं स्पर्धा-रणनीतिविषये चर्चां कृतवन्तौ। अधुना भारतीय-दलेऽपि तस्य नेतृत्वे क्रीडनस्य अवसरः प्राप्तः, येन अस्माकं सामञ्जस्यं अधिकं सुदृढं भविष्यति।”
श्रेयस-अय्यरस्य नेतृत्वशैलीं प्रशंसन् यश-ठाकुरः अवदत्—“सः अत्यन्तं शान्तस्वभावः नायकः अस्ति। कन्दूकक्षेपकाः अधिकान् धावनाङ्कान् ददति वा उत्तमं प्रदर्शनं कुर्वन्ति वा, सः कदापि धैर्यं न जहाति। सः स्वविचारान् कन्दूकक्षेपकेषु न आरोपयति, अपितु प्रथमं तेषां योजनां पृच्छति, ततः स्वविचारान् ददाति। एतदेव कारणं यत् अहं तम् ‘कन्दूकक्षेपकाणां नायकः’ इति मन्ये, यतः सः स्वकन्दूकक्षेपकेषु पूर्णं विश्वासं करोति तथा तेभ्य: स्वातन्त्र्येण कन्दूकक्षेपणाय अवसरं ददाति।”
Hindusthan Samachar / Divya Ranjan