Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ जुलाईमासः (हि.स.)। एफआईएच-पुरुष-हॉकी-विश्वकप-२०२६ प्रतियोगितायै भारतीय-दलं सम्पूर्णतया सज्जम् अस्ति। बेल्जियम-नीदरलैण्ड-देशयोः आयोज्यमानायाः अस्याः प्रतिष्ठित-प्रतियोगितायाः कृते घोषिते विंशति-सदस्यीये भारतीय-दले अनुभवी-क्रीडकैः सह अनेकानां युवा-क्रीडकेभ्य: अपि अवसरः प्रदत्तः।
कन्दूकरक्षकः मोहित-एचएस, प्रतिरक्षकः यशदीप-सिवाचः, मध्यपङ्क्ति-क्रीडकौ राजिन्दर-सिंहः तथा आदित्य-अर्जुन-लालागे स्वस्य उत्कृष्ट-प्रदर्शनस्य आधारेण प्रथमवारं विश्वकपक्रीडायां भारतस्य प्रतिनिधित्वं कर्तुं उत्साहिताः सन्ति।
त्रयोविंशतिवर्षीयः मध्यपङ्क्ति-क्रीडकः आदित्य-अर्जुन-लालागे अवदत् यत् विश्वकपक्रीडायां क्रीडनं तस्य बाल्यकालस्य स्वप्नम् आसीत्। हॉकी-इण्डिया-संस्थायाः माध्यमेन सः अवदत्— “भारतीय-विश्वकप-दलस्य सदस्यत्वं मम कृते अत्यन्तं विशेषः क्षणः अस्ति। अस्य अवसरस्य पूर्णतया सदुपयोगः करणमेव मम लक्ष्यं वर्तते। प्रत्येकस्मिन् अभ्याससत्रे प्रत्येकं स्पर्धायां च अहं स्वस्य शतप्रतिशतम् योगदानं दातुम् इच्छामि तथा दलस्य यथाशक्ति: साहाय्यं करिष्यामि।”
लालागे अवदत् यत् दलस्य वरिष्ठ-क्रीडकाः प्रशिक्षकाश्च निरन्तरं तस्य मार्गदर्शनं कुर्वन्ति, येन तस्य आत्मविश्वासः वर्धितः। तेन उक्तं यत् सम्पूर्णं दलम् एकेनैव भावेन परिश्रमं करोति तथा राष्ट्रस्य कृते श्रेष्ठतमं प्रदर्शनं कर्तुम् इच्छति।
त्रयोविंशतिवर्षीयः मध्यपङ्क्ति-क्रीडकः राजिन्दर-सिंहः दलस्य ऐक्यमेव तस्य महत्तमां शक्तिम् इति अवदत्। सः उक्तवान्— “अस्माकं दलस्य महत्तमा विशेषता परस्पर-सामञ्जस्यम् अस्ति। क्रीडाक्षेत्रे तद्बहिश्च सर्वेषां क्रीडकानां मध्ये उत्कृष्टः समन्वयः वर्तते। यदि कश्चित् क्रीडकः प्रमादं करोति, तर्हि अपरः क्रीडकः तस्य साहाय्यार्थं तत्क्षणमेव सज्जः भवति। एषा एव अस्माकं महत्तमा शक्तिः।”
पञ्चविंशतिवर्षीयः प्रतिरक्षकः यशदीप-सिवाचः अवदत् यत् विश्वकपस्य सिद्धतायै अत्यन्तं कठिनः अभ्यासः कृतः। तेन उक्तम्— “शारीरिक-क्षमता, बलम्, कौशलम्, रणनीतिः इत्येतेषां सर्वेषां पक्षेषु वयं कठोरं परिश्रमम् अकुर्म। प्रत्येकं प्रशिक्षण-शिविरम् अस्मान् स्वप्रदर्शनस्य स्तरम् अधिकम् उन्नेतुं प्रेरितवान्।”
दलनायकः हरमनप्रीत-सिंहः, जरमनप्रीत-सिंहः, अमित-रोहिदासः इत्यादिभिः अनुभवी-क्रीडकैः सह क्रीडनस्य विषये सिवाचः अवदत् यत् वरिष्ठ-क्रीडकाणां मार्गदर्शनं तस्य कृते अत्यन्तं महत्त्वपूर्णम् आसीत्। तेषां समीपत: क्रीडायाः सूक्ष्मतत्त्वानि ज्ञातुं अवसरः प्राप्तः, येन आत्मविश्वासः अपि वर्धितः।
कन्दूकरक्षकः मोहित-एचएस अवदत् यत् गत-विश्वकप-समये सः बेङ्गलूरु-नगरे कनिष्ठ-राष्ट्रीय-प्रशिक्षण-शिविरे आसीत्। तदैव कदाचित् विश्वकपे भारतस्य प्रतिनिधित्वं करिष्यामि इति स्वप्नम् अपश्यत्। सः अवदत्— “मया आशा कृता आसीत् यत् कदाचित् एषः अवसरः अवश्यं भविष्यति, किन्तु एतावत् शीघ्रं भविष्यतीति न कल्पितम्। विश्वकप-दलस्य सदस्यत्वं मम कृते अत्यन्तं भावपूर्णः गौरवमयश्च क्षणः अस्ति।”
मोहितः अवदत् यत् कनिष्ठ-विश्वकपक्रीडाया: आरभ्य तेन तकनीक-शारीरिकयोः उभयोरपि क्षेत्रयोः पर्याप्तः विकासः कृतः। प्रशिक्षकेभ्यः वरिष्ठ-क्रीडकेभ्यश्च निरन्तरं शिक्षणस्य लाभः प्राप्तः। तस्य मते दले अनुभवस्य युवोत्साहस्य च उत्तमः समन्वयः वर्तते।
भारतीय-दलं डी-समूहे समाविष्टम् अस्ति। भारतं स्वकीयम् अभियानं १५ अगस्ते वेल्स-दलस्य विरुद्धं प्रारप्स्यति। ततः १७ अगस्ते इङ्ग्लैण्ड-दलस्य विरुद्धं तथा १९ अगस्तमासे पारम्परिक-प्रतिद्वन्द्विनः पाकिस्तान-दलस्य विरुद्धं स्पर्धां करिष्यति। एकपञ्चाशत्-वर्षाणां अनन्तरं विश्वकप-विजयस्य लक्ष्येन भारतीय-दलं अस्मिन् विश्वकपे सशक्तां स्पर्धां प्रस्तोतुं क्रीडाक्षेत्रे अवतरिष्यति।
Hindusthan Samachar / Divya Ranjan