Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 25 जुलाईमासः (हि.स.)।
पवित्रनगऱ्यां पुरीधाम्नि शनिवासरे वार्षिकरथयात्रायाः सर्वाधिकभव्येषु महत्त्वपूर्णेषु च अनुष्ठानेषु अन्यतमस्य सुनाबेश इति स्वर्णवेशस्य आयोजनं भविष्यति। अस्मिन् शुभावसरे महाप्रभुः जगन्नाथः, महाप्रभुः बलभद्रः, देवी सुभद्रा तथा सुदर्शनः स्वस्वरथेषु विराजमानाः सन्तः स्वर्णाभरणैः अलङ्कृताः भविष्यन्ति। एतस्य दिव्यदर्शनार्थं लक्षशः श्रद्धालूनाम् आगमनस्य सम्भावना वर्तते।
सुनाबेशः रथयात्रायाः अत्यन्तमनोहरः आध्यात्मिकमहत्त्वयुक्तश्च अनुष्ठानः अस्ति। अस्मिन् अवसरे भगवानः शिरसः आरभ्य पादपर्यन्तं सूक्ष्मनक्काशीयुक्तैः स्वर्णाभरणैः भूष्यन्ते। एषः दिव्यवेशः भगवतः राजवैभवस्य गौरवस्य च प्रतीकः मन्यते। अस्य दर्शनार्थं देशस्य विविधभागेभ्यः भक्ताः पुरीधाम आगच्छन्ति।
अस्मिन् अवसरे महाप्रभुः किरीटेन, कुण्डलाभ्याम्, घाघडामाल्या, बाहडामाल्या, हरिदामाल्या, कदम्बमाल्या, बाघनखीमाल्या तथा सेबतीमाल्या इत्यादिभिः पारम्परिकस्वर्णाभरणैः अलङ्क्रियते। एतदतिरिक्तं हलमुसलम्, चक्रम्, तिलकं च इत्येते पवित्रप्रतीकाः अपि धार्यन्ते, येन अयं वेशः अधिकं दिव्यः भवति।
निर्धारितकार्यक्रमानुसारं सुनाबेशः सायं पञ्चवादनात् आरभ्य रात्रौ एकादशवादनपर्यन्तं प्रवर्तिष्यते। तदनन्तरं मेलम इति अनुष्ठानस्य अन्तर्गतं स्वर्णाभरणानि विधिपूर्वकं अपासरिष्यन्ते। यदि पूर्ववर्तिनः अनुष्ठानाः समयात् पूर्वमेव सम्पन्नाः भवन्ति तर्हि श्रद्धालुभ्यः मध्याह्नात् एव अस्य दुर्लभदर्शनस्य अवसरः प्राप्स्यते।
जनसमूहनियन्त्रणार्थं सुचारुदर्शनव्यवस्थायाश्च सुनिश्चितीकरणाय जिलाप्रशासनेन व्यापकाः व्यवस्थाः कृताः सन्ति। बडदाण्ड इति प्रधानमार्गे मार्केटचतुष्पथात् आरभ्य अवरोधव्यवस्था कृता अस्ति। निर्धारितव्यवस्थानुसारं श्रद्धालवः मार्गस्य वामभागतः प्रवेक्ष्यन्ति, रथानां पुरतः दर्शनं करिष्यन्ति, ततः मार्गस्य दक्षिणभागतः निर्गमिष्यन्ति।
प्रशासनेन श्रद्धालुभ्यः अपीलं कृतम् यत् ते निर्धारितमार्गान् अनुसरन्तु तथा सुरक्षाकर्मिभिः सह सहयोगं कुर्वन्तु, येन एतत् भव्यं आयोजनं शान्तिपूर्णेन सुव्यवस्थितेन च प्रकारेण सम्पन्नं भवेत्। रथयात्रायाः अस्य बहुप्रतीक्षितस्य अनुष्ठानस्य दृष्ट्या प्रशासनं पूर्णतया सज्जं सतर्कं च अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani