सेवाश्रय अनियमितताप्रकरणमाधृत्य मुख्यमंत्री शुभेंदुः अभिषेक बनर्जिनं प्रत्यसाधयल्लक्ष्यं, कथितवान्-लोगों के स्वास्थ्येन षड्यंत्रं कुर्वद्भ्यो भविष्यति कार्यवाही
कोलकाता, 25 जुलाईमासः (हि.स.)। पश्चिमबङ्गविधानसभायां शनिवासरे विपक्षनेता शुभेन्दुअधिकारी तृणमूलकाङ्ग्रेसस्य सांसदस्य अभिषेकबनर्जी महोदयस्य सेवाश्रय स्वास्थ्यशिविरेषु कथितानाम् अनियमिततानां भ्रष्टाचारस्य च विषयम् उत्थापयन् अवदत् यत् अस्मिन् प्रकरणे
अमित शाह की समिक्ष


कोलकाता, 25 जुलाईमासः (हि.स.)। पश्चिमबङ्गविधानसभायां शनिवासरे विपक्षनेता शुभेन्दुअधिकारी तृणमूलकाङ्ग्रेसस्य सांसदस्य अभिषेकबनर्जी महोदयस्य सेवाश्रय स्वास्थ्यशिविरेषु कथितानाम् अनियमिततानां भ्रष्टाचारस्य च विषयम् उत्थापयन् अवदत् यत् अस्मिन् प्रकरणे कश्चिदपि दोषी न क्षम्यते। जनजीवनस्य सह क्रीडां कुर्वतां विरुद्धं भारतीयन्यायसंहितायाः प्रावधानानुसारं कठोरकार्यवाही विधास्यते इति तेन आरोपितम्।

तेन उक्तं यत् सेवाश्रयशिविरसम्बद्धाः बह्व्यः शिकायताः शासनस्य समीपम् आगताः सन्ति। तासां शिकायतानाम् आधारेण पञ्जीकृतप्रथमसूचनापत्रेषु कार्यवाही प्रचलति। अधुना प्रत्येकं शिकायतापत्रं पृथक् प्रथमसूचनापत्ररूपेण पञ्जीकृत्य तस्य अनुसन्धानं क्रियते।

शुभेन्दुअधिकारिणा आरोपः कृतः यत् शिविरेषु रोगिभ्यः कालातीताः औषधयः प्रदत्ताः। विधानसभायां तेन कनिष्ठचिकित्सकस्य राजीवविश्वासस्य मुख्यमन्त्रिणे लिखितं पत्रम् अपि पठितम्, यस्मिन् कथितानाम् अनियमिततानां उल्लेखः कृतः।

शुभेन्दुअधिकारी अवदत् यत् सम्पूर्णप्रकरणस्य अनुसन्धानार्थं राज्यपुलिसस्य सीआइडी, एसटीएफ, दक्षिणचतुर्विंशतिपरगणाजनपदपुलिसः चिकित्साविशेषज्ञैः सह संयुक्तदलरूपेण कार्यं कुर्वन्ति। येषां जनानां जीवनं प्रभावितम् अभवत् अथवा ये सेवाश्रयशिविरेषु कस्यचित् प्रकारस्य हानिम् अनुभूतवन्तः, तेषां प्रत्येकं परिवादपत्रं गम्भीरतया परीक्ष्यते इति तेन उक्तम्।

तेन उक्तं यत् अभिषेकबनर्जी तस्य सहयोगिनः च यानि आपराधिककृत्यानि कृतवन्तः, तेषां कृते कापि रियायत् न प्रदास्यते। भारतीयन्यायसंहितायाः प्रावधानानुसारं दोषिणां विरुद्धं कठोरवैधानिकी कार्यवाही कृत्वा तेषां यथोचितदण्डः सुनिश्चितः भविष्यति इति तेन उक्तम्।

उल्लेखनीयं यत् तृणमूलकाङ्ग्रेसस्य शासनकाले अभिषेकबनर्जी स्वस्य संसदीयक्षेत्रे तथा राज्यस्य विभिन्नभागेषु सेवाश्रय स्वास्थ्यशिविरान् आयोजितवान्। एतेषु शिविरेषु निर्धनेभ्यः निःशुल्कचिकित्सासेवाप्रदानस्य दावा कृतः आसीत्। किन्तु विधानसभानिर्वाचनानन्तरं एतेषां शिविराणां सञ्चालनम्, आवश्यकशासकीयानुज्ञाः, औषधानां चिकित्सोपकरणानां च उपयोगः तथा अन्यप्रक्रियाः इत्येतासां विषये अनेकाः शिकायताः प्रकाशम् आगताः, तासाम् अनुसन्धानं सम्प्रति अपि प्रचलति।

Hindusthan Samachar / Dheeraj Maithani