Enter your Email Address to subscribe to our newsletters

वाराणसी, 25 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीजनपदान्तर्गतस्य पूर्वाञ्चलविद्युत्वितरणनिगमस्य प्रबन्धनिर्देशकः शम्भुकुमारः शनिवासरे कृषकेभ्यः स्वसन्देशं प्रदत्तवान्। प्रबन्धनिर्देशकः उक्तवान् यत् वर्षाकाले कृषकैः सुरक्षायाः विशेषः ध्यानं धारयितव्यम्। सुरक्षितविद्युतुपयोगेन एव कृषकस्य कृषिर्जीवनं च सुरक्षितं भवितुम् अर्हति।
प्रबन्धनिर्देशकः कृषकान् कतिपयानि विषयाणि स्मारयन् उक्तवान् यत् मोटरपम्पं प्रवर्तयितुं पूर्वं ताराणां संयोजनानां च परीक्षणम् अवश्यं क्रियताम्। मोटरयन्त्रस्य क्षमतानुसारमेव धारित्रस्य उपयोगः क्रियताम्। विद्युत्स्तम्भानां, रूपान्तरकयन्त्राणां, विद्युत्रेखाणां च समीपे बालकान् पशून् च मा गन्तुं ददातु। पशवः सुरक्षितस्थाने एव स्थापनीयाः, उद्घाटिततारेभ्यः दूरं स्थापयितुं अत्यावश्यकम्।
शनिवासरे पूर्वाञ्चलविद्युत्वितरणनिगमलिमिटेड् इत्यस्य पक्षतः “खुशहालकृषक” इति नाम्ना सूचनापत्रम् अपि प्रकाशितम्। अस्मिन् कृषकाणां सुरक्षितकृषेः सुरक्षितजीवनस्य च विषयसम्बद्धाः प्रमुखबिन्दवः समाविष्टाः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani