Enter your Email Address to subscribe to our newsletters

वाराणसी, 25 जुलाईमासः (हि.स.)।
उत्तरप्रदेशस्य वित्तसंसदीयकार्यमन्त्री सुरेशखन्नः प्रभारीजनपदरूपेण शनिवासरे प्रातःकाले वाराणसीजनपदस्य रामनगरक्षेत्रे सेवाबस्तीनां तथान्येषां क्षेत्राणां भ्रमणं कृत्वा मूलभूतनागरिकसुविधानां निरीक्षणम् अकरोत्।
प्रभारीमन्त्री सुरेशखन्नः उक्तवान् यत् रामनगरक्षेत्रे वर्षणकारणात् बहुषु स्थलेषु जलावरोधः पङ्कसञ्चयश्च अभवत्। तस्य निस्तारणार्थं नगरनिगमस्य अधिकारिभिः नियमितनिरीक्षणं कृत्वा स्वच्छताकार्यं सम्पादनीयम्। तेन कूड़ानिस्तारणकार्यं समये सम्पादयितुम् आदेशाः प्रदत्ताः। सः नगरायुक्तं विशेषरूपेण रामनगरक्षेत्रस्य समुचितध्यानं वहितुम् आदिष्टवान्।
अस्मिन्नवसरे मन्त्री सुरेशखन्नः कैण्टविधानसभाक्षेत्रस्य विधायकेन सौरभश्रीवास्तवेन सह स्थानीयनागरिकैश्च आत्मीयसंवादं कृत्वा क्षेत्रस्य समस्याणां सूचना प्राप्तवान्। निरीक्षणकाले किञ्चित्कालं निष्कास्य मन्त्री सुरेशखन्नः भारतस्य पूर्वप्रधानमन्त्रिणः लालबहादुरशास्त्रिणः प्रतिमायाः माल्यार्पणं कृत्वा तस्मै विनम्रां श्रद्धाञ्जलिम् अर्पितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani