काशीहिन्दूविश्वविद्यालयस्य प्रो डॉ. लालता प्रसादः सियोले दास्यति व्याख्यानम्, अंताराष्ट्रिये सम्मेलने करिष्यति भारतस्य प्रतिनिधित्वम्उत्तरप्रदेशस्य वाराणसीजनपदे स्थितस्य काशीहिन्दूविश्वविद्यालयस्य (बीएचयू) शिक्षासङ्कायस्य प्राध्यापकः डॉ. लालताप्रसाद
वाराणसी,25 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे स्थितस्य काशीहिन्दूविश्वविद्यालयस्य शिक्षासङ्कायस्य प्राध्यापकः डॉ. लालताप्रसादः दक्षिणकोरियाराष्ट्रस्य राजधानी सियोलनगरे आयोजिते द्विदिवसीये अन्ताराष्ट्रियबहुविषयकसम्मेलने भारतस्य प्रतिनि
प्रोफेसर डॉ. लालता प्रसाद


वाराणसी,25 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणसीजनपदे स्थितस्य काशीहिन्दूविश्वविद्यालयस्य शिक्षासङ्कायस्य प्राध्यापकः डॉ. लालताप्रसादः दक्षिणकोरियाराष्ट्रस्य राजधानी सियोलनगरे आयोजिते द्विदिवसीये अन्ताराष्ट्रियबहुविषयकसम्मेलने भारतस्य प्रतिनिधित्वं करिष्यति। “इण्टरनेशनल् मल्टीडिसिप्लिनरी कॉन्फ्रेन्स् ऑन् एजुकेशन् रिसर्च् इन्नोवेशन् एण्ड् मैनेजमेण्ट्” इत्यस्य आयोजनं २७ जुलाई दिनाङ्कात् आरभ्य भविष्यति।

अस्मिन् सम्मेलने विश्वस्य विविधदेशेभ्यः शिक्षाविदः, शोधकर्तारः, शिक्षाप्रशासकाः, नीतिनिर्मातारः तथा प्रबन्धनविशेषज्ञाः सहभागिनः भविष्यन्ति। ते शिक्षायाः, अनुसन्धानस्य, नवाचारस्य तथा प्रबन्धनस्य समकालीनविषयेषु विचारविमर्शं करिष्यन्ति।

विश्वविद्यालयस्य जनसम्पर्काधिकारी शनिवासरे उक्तवान् यत् स्वव्याख्याने प्रो. लालताप्रसादः प्रभाविनः नेतृत्वस्य आवश्यकता, शैक्षणिकसंस्थासु सुशासनम्, गुणवत्तासंवर्धनम्, नवाचारः, रणनीतिकयोजना, सङ्कायविकासः तथा विद्यार्थिनां शैक्षणिकोपलब्धिषु नेतृत्वस्य महत्त्वपूर्णां भूमिकां विस्तरेण विवेचयिष्यति।

एतदतिरिक्तं सः नैतिकनेतृत्वम्, सहभागितापूर्णनिर्णयनिर्माणम् तथा परिवर्तमानवैश्विकशैक्षणिकचुनौत्याः प्रभाविसमाधानम् इत्यादिविषयेषु अपि स्वविचारान् प्रस्तुतयिष्यति। तस्य व्याख्यानं सहभागिनः आधुनिकशैक्षणिकप्रशासनस्य नवीनाभिः अवधारणाभिः वैश्विकपरिप्रेक्ष्येण च परिचितान् करिष्यति तथा भविष्याभिमुखीं समावेशिनीं प्रभाविनीं च शिक्षाव्यवस्थां निर्मातुं प्रेरयिष्यति।

----------------

Hindusthan Samachar / Dheeraj Maithani