Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 25 जुलाईमासः (हि.स.)। अखाडानां व्यवस्थां तथा अखिलभारतीयअखाडापरिषदः वैधतां प्रति पुनरेकवारं विवादः गम्भीरः अभवत्। श्रीशम्भूपञ्चदशनामआवाहनाखाडेन सम्बद्धः श्रीमहन्तः गोपालगिरिः मढीऋद्धिनाथीगद्दीखालसातः प्रसारिते वक्तव्ये हरिगिरेः तथा जूनाखाडायाः कार्यप्रणालीं प्रति गम्भीरान् प्रश्नान् उत्थापयन् अखाडापरिषदः गठनं सञ्चालनं च विषयीकृत्य अनेकान् दावान् प्रस्तुतवान्।
श्रीमहन्तः गोपालगिरिः अवदत् यत् श्रीशम्भूपञ्चदशनामआवाहनाखाडः ईस्वीयसंवत्सरस्य ५४७ तमे वर्षे स्थापितः प्राचीनतमः नागासन्न्यासिनाम् अखाडः अस्ति। तेन उक्तं यत् अखाडानां वरिष्ठता सङ्ख्यया न, अपितु तेषां परम्परया प्राचीनतया च निर्धार्यते। तस्य आरोपः अस्ति यत् जूनाखाडः स्वयम् सर्वात् बृहत्तमः अखाडः इति प्रतिपादयितुं प्रयतते, यत् परम्पराणाम् अनुकूलं नास्ति।
तेन उक्तं यत् २००१ तः २००९ पर्यन्तम् आवाहनाखाडस्य जूनाखाडस्य च मध्ये विवादः प्रचलितः आसीत्। तस्य अनुसारं २००३ तमे वर्षे त्र्यम्बकेश्वरक्षेत्रे आनन्दाखाडस्य श्रीमहन्तेन सागरानन्दसरस्वत्या नेतृत्वे निरञ्जनी, महानिर्वाणी, आनन्द, नवोदासीन, बृहतोदासीन, निर्मल, अग्नि तथा आवाहनाखाडैः पृथक् परिषदः गठिता आसीत् तथा जूनाखाडस्य बहिष्कारः कृतः। तस्य दावा अस्ति यत् २००४ तमे वर्षे उज्जयिनीकुम्भे जूनाखाडेन क्षमायाचनां कृत्वा पुनः परिषदि प्रवेशः प्राप्तः।
गोपालगिरिणा आरोपः कृतः यत् ततः परम् अखाडापरिषदि नियमानाम् अवहेलनम् आरब्धम् तथा जूनाखाडः दीर्घकालात् परिषदः मन्त्रिपदे स्थितः अस्ति। तेन उक्तं यत् सा एव वास्तविकाखाडापरिषद् मन्यते, यस्याम् शम्भूदलस्य रामादलस्य च प्रतिनिधी अध्यक्षः महामन्त्री च भवेताम्। तस्य दावेन आवाहनाखाडस्य अधिकांशाः सन्तः महानिर्वाणीअखाडस्य पक्षे सन्ति तथा सः स्वयम् अपि शताधिकैः साधुभिः सह महानिर्वाणीअखाडस्य समर्थनम् उद्घोषितवान्।
महन्तं हरिगिरिं लक्ष्यीकृत्य गोपालगिरिः अवदत् यत् ये सन्तः पूर्वं अखाडापरिषदः बहिष्कृताः आसन्, अद्य तेषामेव समर्थनं स्वीक्रियते। तेन प्रश्नः उत्थापितः यत् यदि तदानीन्तनः बहिष्कारः अयुक्तः आसीत्, तर्हि तस्य निष्पक्षः अन्वेषणः किमर्थं न कारितः। तेन एतदपि उक्तं यत् कस्यापि एकस्य अखाडस्य अन्यस्य अखाडस्य अन्वेषणस्य अधिकारः नास्ति तथा एवं कर्तुं समाजे अनावश्यकविवादाः उत्पद्येरन्।
Hindusthan Samachar / Dheeraj Maithani