(अद्यतनीकृतम्) धर्मेंद्र प्रधानस्य त्यागपत्रं सहमतं, प्रह्लाद जोशी शिक्षा मंत्रालयस्य अतिरिक्तप्रभारः
नव दिल्ली, 25 जुलाईमासः (हि.स.)। कॉकरोच जनता पार्टी इत्यस्य आन्दोलनस्य अनन्तरं केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानस्य त्यागपत्रं आधिकारिकरूपेण स्वीकृतम्। शनिवासरे राष्ट्रपतिसचिवालयेन निर्गतविज्ञप्त्यानुसारं राष्ट्रपतिः द्रौपदी मुर्मू प्रधानमन
प्रह्लाद जोशी, केंद्रीय मंत्री


नव दिल्ली, 25 जुलाईमासः (हि.स.)।

कॉकरोच जनता पार्टी इत्यस्य आन्दोलनस्य अनन्तरं केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानस्य त्यागपत्रं आधिकारिकरूपेण स्वीकृतम्। शनिवासरे राष्ट्रपतिसचिवालयेन निर्गतविज्ञप्त्यानुसारं राष्ट्रपतिः द्रौपदी मुर्मू प्रधानमन्त्रिणः परामर्शानुसारं धर्मेन्द्रप्रधानस्य त्यागपत्रं स्वीकृतवती। एतेन सह शिक्षामन्त्रालयस्य अतिरिक्तदायित्वं अधुना उपभोक्तृकार्यम् खाद्यसार्वजनिकवितरणमन्त्री प्रह्लादजोशी महोदयाय समर्पितम्।

प्रह्लादजोशी ३० मई २०१९ तमे दिने प्रथमवारं केन्द्रीयमन्त्रिमण्डलमन्त्रिरूपेण शपथं स्वीकृतवान्। तस्मिन् समये तस्मै संसदीयकार्यमन्त्रालयस्य कोयलामन्त्रालयस्य खानमन्त्रालयस्य च दायित्वं प्रदत्तम्। जून २०२४ पर्यन्तं सः एतेषां मन्त्रालयानां कार्यभारं वहन् आसीत्। २०२४ तमे वर्षे सम्पन्नानां लोकसभानिर्वाचनानामनन्तरं तस्मै उपभोक्तृकार्यमन्त्रालयस्य खाद्यसार्वजनिकवितरणमन्त्रालयस्य नवीननवीकरणीयऊर्जामन्त्रालयस्य च दायित्वं प्रदत्तम्।

कर्नाटकराज्यस्य धारवाड लोकसभाक्षेत्रात् प्रह्लादजोशी निरन्तरं पञ्चवारं सांसदरूपेण निर्वाचितः। तथापि २०२४ तमे वर्षे लोकसभानिर्वाचने विजयानन्तरं तेन उक्तं यत् अल्पान्तरेण प्राप्तया विजयेन सः पूर्णतया सन्तुष्टः न आसीत्।

उल्लेखनीयं यत् इन्स्टाग्राममाध्यमे व्यंग्यरूपेण आरब्धः कॉकरोच जनता पार्टी इत्यस्य अभियानः कतिपयमासेषु एव विशालछात्रान्दोलने परिणतः। नीट प्रश्नपत्रप्रस्रवणप्रकरणम् अधिकृत्य देशव्यापिनः छात्रविरोधप्रदर्शनानां मध्ये शनिवासरे धर्मेन्द्रप्रधानः शिक्षामन्त्रिपदात् त्यागपत्रम् अयच्छत्।

---------------

Hindusthan Samachar / Dheeraj Maithani