धर्मतला हिंसाप्रकरणे सप्त प्राथमिक्यः, 70 उपद्रविणश्चिन्हिताः; भविष्यति दृढकार्यवाही : शुभेंदु अधिकारी
कोलकाता, 25 जुलाई मासः(हि.स.)। पश्चिमबङ्गराज्ये धर्मतलास्थिते डोरिनाक्रॉसिङ्गस्थले शुक्रवासरे ‘यूनाइटेड् कॉकरोच् मार्च्’ इत्यस्य पताकायाः अधः आयोजितस्य प्रदर्शनस्य समये अभवत् हिंसाघटनाविषये कोलकातापुलिसेन कुलं सप्त प्राथमिकीः पञ्जीकृताः। तासु षट् प
मुख्यमंत्री शुभेंदु अधिकारी की तस्वीर


कोलकाता, 25 जुलाई मासः(हि.स.)। पश्चिमबङ्गराज्ये धर्मतलास्थिते डोरिनाक्रॉसिङ्गस्थले शुक्रवासरे ‘यूनाइटेड् कॉकरोच् मार्च्’ इत्यस्य पताकायाः अधः आयोजितस्य प्रदर्शनस्य समये अभवत् हिंसाघटनाविषये कोलकातापुलिसेन कुलं सप्त प्राथमिकीः पञ्जीकृताः। तासु षट् प्राथमिकीः माध्यमप्रतिनिधीनां शिकायतानाम् आधारेण, एका च स्वतः संज्ञानं गृहीत्वा पञ्जीकृता। शनिवासरे विधानसभायां मुख्यमन्त्री शुभेन्दुअधिकारी घटनाविषये सूचनां दत्त्वा माध्यमप्रतिनिधिषु जातस्य आक्रमणस्य तीव्रनिन्दां कृतवान् तथा अद्यावधि सप्ततिः उपद्रविणः चिह्निताः इति उक्तवान्।

मुख्यमन्त्री उक्तवान् यत् प्रारम्भिकानुसन्धाने समुदायविशेषस्य कुख्यातानाम् अपराधिनां संलिप्तता प्रकाशम् आगता। विधानसभायां तेन एतेषां चतुर्णाम् आरोपितानाम् नामानि अपि उक्तानि। मुख्यमन्त्री स्पष्टतया उक्तवान् यत् सर्वेषाम् आरोपितानां विरुद्धं विधानसभया अद्यतनकाले पारितस्य ‘पब्लिक् सेफ्टी एक्ट्’ इत्यस्य गम्भीरधाराः प्रयोजिताः भविष्यन्ति। तेन उक्तं यत् शासनम् उपद्रवं हिंसां च कदापि न सहिष्यते तथा दोषिणः तादृशीं दण्डं प्राप्स्यन्ति यां तेषां आगामिन्यः त्रयः अपि सन्ततयः स्मरिष्यन्ति।

मुख्यमन्त्री शुभेन्दुअधिकारी उक्तवान् यत् लोकतान्त्रिकव्यवस्थायां प्रत्येकस्मै नागरिकाय शान्तिपूर्वकं विरोधप्रदर्शनस्य अधिकारः अस्ति। एतस्यैव सिद्धान्तस्य आधारेण पुलिसेन प्रदर्शनस्य अनुमतिः प्रदत्ता। तेन उक्तं यत् राज्यशासनेन पुलिसाय स्पष्टनिर्देशाः प्रदत्ताः आसन् यत् कस्मिन्नपि परिस्थितौ बलप्रयोगः न क्रियताम्। सम्पूर्णपरिस्थितेः निरन्तरं निरीक्षणं क्रियमाणम् आसीत्। प्रदर्शनकारिणः पुनःपुनः पुलिसं प्रकोपयितुं प्रयतन्ते स्म, किन्तु पुलिसकर्मिणः संयमं धारयन्तः कस्यापि प्रलोभनस्य वशीभूताः न अभवन्।

मुख्यमन्त्री आरोपं कृतवान् यत् यदा प्रदर्शनकारिणः पुलिसं प्रकोपयितुं न सफलाः अभवन् तदा ते सुनियोजितरूपेण माध्यमप्रतिनिधीन् लक्ष्यीकृतवन्तः। अस्मिन् आक्रमणे षट् माध्यमप्रतिनिधयः गम्भीररूपेण आहताः अभवन्। सर्वेषां चिकित्सोपचारः राजकीयचिकित्सालयेषु कृतः तथा तेषां शिकायतानाम् आधारेण प्राथमिकीः अपि पञ्जीकृताः।

माध्यमप्रतिनिधिषु जातस्य आक्रमणस्य तीव्रनिन्दां कुर्वन् मुख्यमन्त्री घोषणा कृतवान् यत् भाजपाविधायकाः अस्य घटनायाः विरोधे विधानसभायाः द्वितीयसत्रस्य कार्यवाही आरम्भात् पूर्वं डॉ. भीमराव अम्बेडकरस्य प्रतिमायाः पुरतः कृष्णपट्टिकां बद्ध्वा विरोधप्रदर्शनं करिष्यन्ति।

पुलिसेन स्वतः पञ्जीकृतायाः प्राथमिकीअनुसारं शुक्रवासरे मध्याह्ने प्रायः द्विवादने विविधराजनैतिकछात्रयुवासङ्गठनानां नेतृत्वे बहुसंख्यकाः जनाः डोरिनाक्रॉसिङ्गस्थले समवेताः। आरोपः अस्ति यत् एषः समवायः पुलिसस्य अनुमतिं विना आयोजितः। प्राथमिकीमध्ये एआईडीएसओ, एआईडीवाईओ, सीपीआई (एमएल), डीवाईएफआई, एआईएसए, पीडीएसएफ, एएफएसए, डीएसएफ, आईएसयू तथा एपीडीआर इत्यादीनां अनेकसङ्गठनानाम् उल्लेखः कृतः।

पुलिसस्य आरोपः अस्ति यत् प्रदर्शनस्य समये ध्वनिविस्तारकयन्त्रैः उद्दीपनपराणि भाषणानि प्रदत्तानि तथा समर्थकाः सम्पूर्णं डोरिनाक्रॉसिङ्गक्षेत्रम् अधिकर्तुं प्रेरिताः। पुलिसेन सभां अवैधाम् इति घोषित्य पुनःपुनः क्षेत्रं परित्यक्तुं शान्तिं च स्थापयितुं प्रार्थना कृता, किन्तु प्रदर्शनकारिणः निर्देशान् न अनुपालितवन्तः।

प्राथमिक्यां उक्तम् अस्ति यत् ततः पश्चात् भीडेन पुलिसकर्मिषु माध्यमप्रतिनिधिषु सामान्यपथिकेषु च जलपूर्णशीशिकाः, उपानहः, दण्डाः, पाषाणखण्डाश्च प्रक्षिप्ताः, येन अनेकाः पुलिसकर्मिणः आहताः अभवन्। पुलिसस्य दावा अस्ति यत् प्रदर्शनकारिणां संख्या अधिका सति अपि पुलिसबलेन संयमः पालितः तथा प्रदर्शनं निर्धारितक्षेत्रपर्यन्तमेव सीमितं कृतम्। अस्य घटनायाः कारणात् दीर्घकालं यावत् यातायातः जनजीवनं च प्रभावितम् अभवत्। सायंकाले प्रायः सप्तवादनपञ्चदशमिनिटसमये प्रदर्शनकारिणः क्षेत्रात् निर्गतवन्तः।

अस्मिन् प्रकरणे हेयरस्ट्रीट् पुलिसस्थानके विविधधारासु अज्ञातव्यक्तीनां विरुद्धं प्रकरणं पञ्जीकृतम् अस्ति। पुलिसेन उक्तं यत् प्रकरणस्य अन्वेषणं निरन्तरं प्रवर्तते तथा अन्येषाम् आरोपितानां परिचयं निश्चित्य तेषां ग्रहणार्थं कार्यवाही क्रियमाणा अस्ति।-----------------

Hindusthan Samachar / Dheeraj Maithani