विपक्षो यूनां व्याजेन कुरुते प्रहारं, सर्वकारो यूनां भविष्यं प्रति पूर्णतया प्रतिबद्धः : शेखावतः
जोधपुरम्, 25 जुलाईमासः (हि.स.)। केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः स्वस्य संसदीयक्षेत्रं जोधपुरम् आगतः। जोधपुरविमानस्थानके पत्रकारैः सह संवादं कुर्वन् तेन विपक्षं विशेषतः काङ्ग्रेसपक्षं प्रति तीक्ष्णाः टिप्पण्यः कृताः। तेन आरोपः कृत
jodhpur


जोधपुरम्, 25 जुलाईमासः (हि.स.)। केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः स्वस्य संसदीयक्षेत्रं जोधपुरम् आगतः। जोधपुरविमानस्थानके पत्रकारैः सह संवादं कुर्वन् तेन विपक्षं विशेषतः काङ्ग्रेसपक्षं प्रति तीक्ष्णाः टिप्पण्यः कृताः। तेन आरोपः कृतः यत् निरन्तरं निर्वाचनपराजयान् अनुभूय विपक्षदलानि स्वराजनैतिकस्वार्थसिद्ध्यर्थं युवानां विरोधप्रदर्शनानाम् अनुचितलाभम् उपयुज्य तेषामेव माध्यमेन स्वराजनीतिं प्रवर्तयितुम् इच्छन्ति।

काङ्ग्रेसपक्षं लक्ष्यीकृत्य गजेन्द्रसिंहशेखावतः राजस्थानीप्रसिद्धलोकुक्तेः उल्लेखं कृतवान्। तेन उक्तं यत् विपक्षस्य समीपे अधुना किमपि विषयः न अवशिष्टः। तेषां देशस्य, देशस्य भविष्यस्य अथवा राष्ट्रस्य प्रतिष्ठायाः विषये कापि चिन्ता नास्ति। यत्र यदा अवसरः लभ्यते तत्र ते केवलं सर्वकारस्य आलोचनां कृत्वा स्वराजनैतिकहितसाधने एव प्रवृत्ताः भवन्ति। तथापि देशस्य जनाः युवानश्च सर्वं सम्यक् जानन्ति।

प्रधानमन्त्रिणा नरेन्द्रमोदिना इन्स्टाग्राममाध्यमेन छात्रैः युवभिः च सह कृतस्य संवादस्य उल्लेखं कुर्वन् शेखावतः अवदत् यत् देशव्यापिनः युवानः एतस्याः पहलायाः अभूतपूर्वम् उत्साहेन सकारात्मकभावेन च स्वागतं कृतवन्तः। प्रधानमन्त्रिणा अपि युवभ्यः एतस्य समर्थनस्य कृते धन्यवादः प्रदत्तः।

परीक्षासु अनियमितताः प्रश्नपत्रप्रसारणप्रकरणानि च विषयीकृत्य मन्त्री स्पष्टतया अवदत् यत् सर्वकारः अस्मिन् विषये अत्यन्तं संवेदनशीलः अस्ति। सर्वकारेण स्वीकृतानां कठोरपदानां उल्लेखं कुर्वन् तेन उक्तं यत् शिकायताप्राप्तिमात्रेण काप्यपि उपेक्षा विना अन्वेषणं कारितम् तथा अपराधिनः कारागारं प्रेषिताः। नीटपरीक्षायाः प्रकरणे द्विमासाभ्यन्तरे सम्पूर्णशक्त्या संसाधनैः पारदर्शितया च परीक्षा पुनरायोजिता, परिणामाश्च प्रकाशिताः। प्रमादं कृतवन्तः सप्तचत्वारिंशत् कर्मचारीणः पदात् अपसारिताः तथा सम्बद्धः शिक्षासचिवः स्थानान्तरितः।

शेखावतेन उक्तं यत् मोदीसर्वकारस्य प्रमुखप्राथमिकता युवाशक्तेः सामर्थ्येन एव भारतस्य विकसितभारतरूपेण तीव्रगत्या उन्नयनम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani