राजगढनगरम् - प्रधानमन्त्री-सुरक्षित-मातृत्व-दिवसस्य अवसरः, विशेष-स्वास्थ्य-शिविराणाम् आयोजनम्
राजगढनगरम्, २५ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजगढ-जनपदे शनिवासरे स्वास्थ्य-विभागेन सञ्चालितस्य प्रधानमन्त्री-सुरक्षित-मातृत्व-दिवसस्य अन्तर्गतं विशेष-स्वास्थ्य-शिविराणाम् आयोजनम् अभवत्। जनपदस्य दश स्वास्थ्य-संस्थासु आयोजितेषु एतेषु शिविरेषु ग्
विशेष स्वास्थ्य शिविरों का आयोजन


राजगढनगरम्, २५ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजगढ-जनपदे शनिवासरे स्वास्थ्य-विभागेन सञ्चालितस्य प्रधानमन्त्री-सुरक्षित-मातृत्व-दिवसस्य अन्तर्गतं विशेष-स्वास्थ्य-शिविराणाम् आयोजनम् अभवत्।

जनपदस्य दश स्वास्थ्य-संस्थासु आयोजितेषु एतेषु शिविरेषु ग्रामीण-नगरीय-क्षेत्रेभ्यः आगताः ३७८ अधिकाः गर्भवत्यः विशेषज्ञ-चिकित्सकैः स्वास्थ्य-परीक्षणाय परीक्षिताः। परीक्षणस्य समये ५७ अधिकाः महिलाः उच्च-समस्यात्मक-गर्भावस्था-श्रेण्यां चिह्निताः, तासां कृते विशेष-पर्यवेक्षणस्य चिकित्सायाश्च व्यवस्था क्रियमाणा अस्ति।

मातृ-शिशु-मृत्युदरस्य न्यूनीकरणस्य उद्देश्येन स्वास्थ्य-विभागेन प्रतिमासस्य पञ्चविंशतितमे दिने अस्य विशेष-अभियानस्य आयोजनं क्रियते। शिविराणां समुचित-सञ्चालनस्य व्यवस्थायाश्च पर्यवेक्षणार्थं जनपद-स्वास्थ्य-विभागस्य कार्यक्रम-अधिकारिणः विभिन्न-विकासखण्डानां उत्तरदायित्वेन नियुक्ताः आसन्। ते दिवसभरस्य गतिविधीनां समीक्षां कृत्वा स्वप्रतिवेदनं जनपद-कार्यालये प्रस्तुतवन्तः।

अस्मिन्नवसरे मुख्य-चिकित्सा-स्वास्थ्य-अधिकारिणी डॉ. शोभा-पटेल-महोदया जनपद-चिकित्सालये आयोजितस्य शिविरस्य निरीक्षणम् अकरोत्। तत्र ५२ गर्भवतीनां परीक्षणं कृतम्, तासु २३ महिलाः उच्च-समस्यात्मक-श्रेण्यां प्राप्ताः। निरीक्षणकाले डॉ. पटेल-महोदयया गम्भीर-रक्ताल्पतया पीडितानां महिलानां त्वरितं चिकित्सालये प्रवेशं कारयित्वा उपचारारम्भस्य निर्देशः दत्तः। सा चिकित्सकान् उच्च-समस्यात्मक-गर्भवतीनां नियमित-पर्यवेक्षणं सुनिश्चितं कर्तुमपि निर्दिष्टवती।

शिविरेषु आगच्छन्तीनां महिलानां सुविधार्थं स्वास्थ्य-केन्द्रेषु उपवेशन-व्यवस्था, स्वच्छ-पेयजलस्य तथा लघु-भोजनस्य व्यवस्था कृता आसीत्। अस्मिन्नवसरे आशा-कार्यकर्त्र्यः आङ्गनवाडी-कार्यकर्त्र्यश्च सक्रियां भूमिकां निर्वहन्त्यः गर्भवतीनां नियमित-परीक्षणस्य, पोषणस्य तथा सुरक्षित-प्रसवस्य विषये जागरूकताम् अपि प्रसारितवत्यः। स्वास्थ्य-विभागेन उच्च-समस्यात्मक-श्रेण्यां चिह्नितानां महिलानां कृते विशेष-अनुवर्तन-व्यवस्था आरब्धेति उक्तम्।

Hindusthan Samachar / Divya Ranjan