जयपुरस्य प्रवेशमार्गेषु राजस्थानी-संस्कृत्या प्रेरितानि त्रीणि भव्यानि स्वागतद्वाराणि निर्मास्यन्ते, ५.३६ कोटिरूप्यकाणां परियोजना
जयपुरनगरम्, २५ जुलाईमासः (हि.स.)। राजधानी-जयपुरनगरे प्रविशन्तः पर्यटकाः आगन्तुकाश्च इदानीं राजस्थानी-संस्कृतेः अनुपमया शोभया स्वागतं प्राप्स्यन्ति। जयपुर-विकास-प्राधिकरणम् नगरस्य त्रिषु प्रमुखेषु प्रवेशमार्गेषु ‘वेस्ट-टू-आर्ट्’ इति विषयाधारितानि भव
माॅडल गेट


जयपुरनगरम्, २५ जुलाईमासः (हि.स.)। राजधानी-जयपुरनगरे प्रविशन्तः पर्यटकाः आगन्तुकाश्च इदानीं राजस्थानी-संस्कृतेः अनुपमया शोभया स्वागतं प्राप्स्यन्ति। जयपुर-विकास-प्राधिकरणम् नगरस्य त्रिषु प्रमुखेषु प्रवेशमार्गेषु ‘वेस्ट-टू-आर्ट्’ इति विषयाधारितानि भव्यानि स्वागतद्वाराणि निर्मास्यति। प्रायः ५.३६ कोटिरूप्यकाणां व्ययेन सम्पाद्यमानायाः अस्याः परियोजनायाः निविदा-प्रक्रिया आरब्धा अस्ति।

जेडीए-आयुक्तः सिद्धार्थ-महाजनः अवदत् यत् मुख्यमन्त्रिणः भजनलाल-शर्मणः “विकसित-राजस्थानम्” इति सङ्कल्पस्य साकारतां प्रति एष: प्रयत्न: क्रियते। एतेषां स्वागतद्वाराणां माध्यमेन राजस्थानस्य समृद्धा संस्कृतिः, लोकपरम्पराः, अतिथिसत्कारस्य भावना च कलात्मकरीत्या प्रदर्शिता भविष्यति। परियोजनान्तर्गतं प्रथमं स्वागतद्वारं दिल्ली-कुण्डा-मोडतः आमेरगमनमार्गे निर्मास्यते, यस्य विषयः ‘खम्मा घणी’ इति भविष्यति। एतत् द्वारं राजस्थानस्य आत्मीयतायाः अतिथिसत्कारस्य च परम्परायाः प्रतीकं भविष्यति। द्वितीयं स्वागतद्वारं घाट-की-गुणी-शुल्कपथके निर्मास्यते, यत् पारम्परिक-लहरिया-रचनाविषये आधारितं भविष्यति।

तृतीयं स्वागतद्वारं गङ्गा-मार्गे प्रस्तावितस्य न्यू-जयपुरस्य पुरतः निर्मास्यते, यत्र पारम्परिक-राजस्थानी-वेषभूषायां स्त्री-पुरुषयोः कलात्मकाः प्रतिमाः ‘पधारो म्हारे देस’ इति भावनां साकारयिष्यन्ति। अस्यां परियोजनायां नागरिक-निर्माणकार्याणि, विद्युत्कार्याणि, उद्यान-विकासश्च समाविष्टानि सन्ति। निविदा-प्रक्रियायाः समापनानन्तरं निर्माणकार्यं प्रारभ्यते, तत् च षण्मासेषु सम्पादयितुं लक्ष्यं निर्धारितम् अस्ति।

जेडीए इदं मन्यते यत् एषा परियोजना न केवलं नगरस्य प्रवेशमार्गान् आकर्षकान् भव्यांश्च करिष्यति, अपितु ‘वेस्ट-टू-आर्ट्’ इत्यस्य अवधारणायाः माध्यमेन अनुपयुक्त-सामग्रीणां सृजनात्मक-उपयोगं प्रोत्साहयन्ती पर्यावरणसंरक्षणस्य सन्देशमपि प्रसारयिष्यति।

तथा च जयपुरनगरम् आगच्छन्तः देशीयाः विदेशीयाश्च पर्यटकाः नगरे प्रवेशमात्रेण एव राजस्थानस्य समृद्धां सांस्कृतिकविरासतां, आत्मीयतां तथा ‘अतिथिदेवो भवः’ इति परम्परायाः सजीवानुभवं प्राप्स्यन्ति।

Hindusthan Samachar / Divya Ranjan