Enter your Email Address to subscribe to our newsletters

नवटिहरी, 25 जुलाईमासः (हि.स.)। अमरबलिदानिनः श्रीदेवसुमनस्य बलिदानदिवसस्य उपलक्ष्ये शनिवासरे टिहरीगढवालजनपदे श्रद्धया सम्मानपूर्वकं च श्रीदेवसुमनस्मृतिदिवसः आचरितः। नूतनटिहरीस्थजिलाकारागारे श्रीदेवसुमनस्मृतिस्थले आयोजिते मुख्यकार्यक्रमे मुख्यविकासाधिकारी वरुणा अग्रवाल महोदया बलिदानिनः प्रतिमायाः माल्यार्पणपूर्वकं श्रद्धाञ्जलिम् अर्पितवती। तस्मै गार्ड्-ऑफ्-ऑनर इति सम्मानोऽपि प्रदत्तः।
अस्मिन् कार्यक्रमे जनप्रतिनिधयः, अधिकारिणः, छात्राः छात्राश्च, सामाजिकसङ्गठनानां प्रतिनिधयः, स्थानीयनागरिकाश्च श्रद्धासुमनांसि समर्पितवन्तः। स्मृतिस्थले प्रतिष्ठापितया श्रीदेवसुमनस्य प्रतिमया सह तस्य ऐतिहासिकाः बद्धशृङ्खलाः अपि दर्शनार्थं प्रदर्शिताः। विभिन्नविद्यालयानां छात्राः छात्राश्च मार्चपास्टं कृत्वा देशभक्तिपरान् घोषान् अकुर्वन्।
मुख्यविकासाधिकारी वरुणा अग्रवाल महोदया उक्तवती यत् श्रीदेवसुमनस्य जीवनं सत्यस्य, न्यायस्य, जनाधिकाराणां च कृते कृतसंघर्षस्य अमिटं उदाहरणम् अस्ति। तस्य त्यागः बलिदानं च अद्यापि युवजनान् राष्ट्रसेवायै, लोकतान्त्रिकमूल्यानां संरक्षणाय तथा समाजहिताय कार्यकरणे प्रेरयति। नूतनटिहरीनगरपालिकापरिषदः अध्यक्षः मोहनसिंहरावतः अवदत् यत् श्रीदेवसुमनस्य आदर्शान् आत्मसात्कृत्य समाजस्य राष्ट्रस्य च प्रति स्वकर्तव्यस्य निष्ठया पालनमेव तस्मै सच्ची श्रद्धाञ्जलिः भवति।
अस्मिन्नवसरे जिलाकारागारपरिसरे वृक्षारोपणकार्यक्रमः सम्पन्नः। स्वयं-सहायतासमूहैः विभिन्नविभागैश्च स्थापितानां प्रदर्शनीस्थलानाम् अवलोकनमपि कृतम्। स्मृतिदिवसस्य निमित्तम् आयोजितां धावनस्पर्धां मुख्यविकासाधिकारी हरितध्वजप्रदर्शनेन प्रारब्धवती तथा समापनसमये विजेतृप्रतिभागिनः पुरस्कृतवती।
धावनस्पर्धायां चतुर्दशवर्षात् न्यूनबालिकावर्गे अञ्जली रतूडी प्रथमस्थानम्, यशस्वी द्वितीयस्थानम्, आरोही तृतीयस्थानं च प्राप्तवत्यः। चतुर्दशवर्षात् न्यूनबालकवर्गे फैजलः प्रथमः, दिव्यांशुः द्वितीयः, महेशबेलवालः तृतीयश्च अभवत्। मुक्तबालिकावर्गे मानसी प्रथमस्थानम्, बबीतानेगी द्वितीयस्थानम्, मनीषाभट्ट तृतीयस्थानं च प्राप्तवत्यः। मुक्तबालकवर्गे अनूपः प्रथमः, अमनः द्वितीयः, रक्षितपँवारः तृतीयश्च अभवत्।
उल्लेखनीयं यत् श्रीदेवसुमनः तत्कालीनटिहरीरियासतेः जनाधिकाराणां लोकतान्त्रिकमूल्यानां च स्थापनार्थं संघर्षं कुर्वन् चतुरशीतिदिनात्मकस्य ऐतिहासिकस्य आमरणानशनस्य अनन्तरं २५ जुलै १९४४ तमे दिने स्वप्राणान् राष्ट्राय समर्पितवान्। तस्य स्मृत्यर्थं प्रतिवर्षं २५ जुलै-दिने समग्रे उत्तराखण्डप्रदेशे श्रीदेवसुमनस्मृतिदिवसः आचर्यते।
अस्मिन् कार्यक्रमे जिलाविकासाधिकारी मो. असलम, अपरपुलिसअधीक्षकः दीपकः, उपजिलाधिकारी कमलेशमेहतः, कारागाराधीक्षकः अभिलाषगैरोला, तहसीलदारः धीरजराणा, विविधविभागानाम् अधिकारिणः, जनप्रतिनिधयः, सामाजिकसङ्गठनानां प्रतिनिधयः, छात्राः छात्राश्च, स्थानीयनागरिकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani