Enter your Email Address to subscribe to our newsletters


– आगरानगरे विश्वविद्यालय-शिक्षकाणां कृते नगदरहित-चिकित्सा-योजनायाः शुभारम्भः– मुख्यमन्त्री स्वस्य आगरा-प्रवासस्य द्वितीय-दिने विश्वविद्यालयस्य शिवाजी-मण्डपम् आगतः– योजनायाः शुभारम्भानन्तरं मैनपुरी-नगराय प्रस्थितवान्
आगरानगरम्, २६ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः स्वस्य आगरा-प्रवासस्य द्वितीय-दिने रविवासरे आग्रा-विश्वविद्यालयस्य खन्दारी-परिसरस्थितं शिवाजी-मण्डपम्-सभागारम् आगत्य विश्वविद्यालय-शिक्षकाणां कृते नगदरहित-चिकित्सा-योजनायाः तथा वृहद्-बीमा-सुरक्षा-योजनायाः शुभारम्भम् अकरोत्। ततः पूर्वं विश्वविद्यालय-परिसरे शैक्षिक-उन्नतिः, विकासः तथा सामाजिक-योगदानम् इति विषयक-प्रदर्शिन्याः अवलोकनम् अकरोत्। अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः आशु-कुमारी-महोदयया सह विविध-विषयेषु चर्चामपि अकरोत्। अस्य कार्यक्रमस्य प्रदेशस्य विविध-जनपदेषु सजीव-प्रसारणमपि अभवत्।
१.२८ लक्ष-शिक्षकैः सह दशलक्षाधिकाः जनाः लाभान्विताः भविष्यन्ति
मुख्यमन्त्री उक्तवान् यत् अस्याः योजनायाः लाभः विश्वविद्यालयेषु, सर्वकारीय-अनुदानप्राप्त-महाविद्यालयेषु तथा निजी-महाविद्यालयेषु कार्यरतानां प्रायः १.२८ लक्ष-शिक्षकाणां तेषां परिवारजनानां च भविष्यति। एतेन प्रायः दशलक्षाधिकाः जनाः लाभान्विताः भविष्यन्ति। अस्याः योजनायाः अन्तर्गतं प्रत्येकं पात्र-परिवारं प्रतिवर्षं पञ्चलक्ष-रूप्यकपर्यन्तं निःशुल्क-चिकित्सायाः सुविधां प्राप्स्यति। अस्य परिचयपत्रस्य माध्यमेन गम्भीर-रोगै: सह १९०० अधिक-रोगाणां चिकित्सोपचारः योजनायां समाविष्टः भविष्यति। अस्मिन् अपि आयुष्मान्-भारत-योजनाम् इव चिकित्सा-दराः प्रवर्तिष्यन्ते।
सः अवदत् यत् एषा योजना उच्चशिक्षा-मन्त्रिणः गृह-जनपदात् आरभ्यते। पञ्जाब-नेशनल-धनागारस्य महाप्रबन्धकस्य उच्चशिक्षा-विभागस्य च मध्ये सामञ्जस्य-सन्धिः अभवत्। सर्वकारेण पञ्जाब-नेशनल-धनागारेण सह कृताया: सन्धे: अन्तर्गतं शिक्षकेभ्यः १.५ कोटि-रूप्यकाणां दुर्घटना-बीमायोजनम्, ३ कोटि-रूप्यकाणां विमान-दुर्घटना-बीमायोजनम्, चिकित्सालय-व्ययार्थं ६० सहस्र-रूप्यकाणां नगद-लाभः, तथा १२ लक्ष-रूप्यकाणां जीवन-बीमायोजनम् प्रदास्यते।
भारतीय-परम्परायां शिक्षकस्य स्थानं सर्वोपरि
मुख्यमन्त्री योगी-आदित्यनाथः स्वसम्बोधने भारतीय-संस्काराणां परम्पराणां च उल्लेखं कुर्वन् अवदत् यत् भारतीय-परम्परायां शिक्षकस्य स्थानं सर्वोपरि वर्तते। सः उक्तवान् यत् स एव वास्तविकः शिक्षकः यः स्वशिष्यं केवलं पुस्तकीय-ज्ञानं न ददाति, अपितु सम्यक्-चिन्तनं सम्यग्दृष्टिं च प्रददाति। अस्मिन् सन्दर्भे तेन प्रसिद्धस्य वैद्यस्य जीवकस्य कथापि कथिता। सः अवदत् यत् प्रत्येकस्मिन् विद्यार्थिनि अध्ययन-जिज्ञासा भवेत्, किन्तु तं सम्यक्-मार्गे नेतुं शिक्षकस्यैव दायित्वम् अस्ति।
छात्रान् प्रति शिक्षकाणामपि महती उत्तरदायित्वता
सः पुनरुक्तवान् यत् अद्य शिक्षण-संस्थासु पूर्ववत् वातावरणं नास्ति, तथापि शिक्षकाः विद्यार्थिनां प्रतिभां परिष्कर्तुं, तेषां क्षमताः वर्धयितुं, तेषां रुच्यनुसारं योग्यता-अनुसारं च प्रगतिम् सुनिश्चितुं प्रयतन्ताम्। परिवर्तमाने शैक्षिक-वातावरणे सामाजिक-माध्यमानां सम्यक्-प्रयोगस्य आवश्यकता अत्यधिकमस्ति इति तेन विशेषतः प्रतिपादितम्।
परिवर्तमाने काले सामाजिक-माध्यमानां सम्यक्-प्रयोगस्य आवश्यकता
सामाजिक-माध्यमानां डिजिटल-मञ्चानां च विषये चर्चां कुर्वन् सः अवदत् यत् एते मञ्चाः एकतः शिक्षायाः साधनानि सन्ति, अपरतः मिथ्या-सूचनानां कारणेन युवानः विपथं गन्तुमपि अर्हन्ति। अतः आवश्यकं यत् युवभ्यः सम्यग्दिशा प्रदर्श्येत।
विश्वविद्यालयस्य कार्यक्रमेषु सह-भागिताया: अनन्तरं मुख्यमन्त्री योगी-आदित्यनाथः केन्द्रीय-हिन्दी-संस्थानस्य हेलिकॉप्टर-अवतरण-स्थलात् मध्याह्ने प्रायः १२:२० वादने हेलिकॉप्टर-माध्यमेन मैनपुरी-नगराय प्रस्थितवान्।
Hindusthan Samachar / Divya Ranjan