पाकिस्तानेन सह अधुना कापि वार्ता पीओके इत्येतत् प्रति केंद्रितं भविष्यति : राजनाथः
- भारतीयसेनायाः योद्धा अनुपमः, कारगिले दत्तबलिदानं संततीः प्रेरयिष्यति : सेना प्रमुखः द्रासः, 26 जुलाईमासः(हि.स.)। रक्षामन्त्री राजनाथसिंह रविवासरे सप्तविंशतितमे कार्गिलविजयदिवसे द्रासस्थानात् राष्ट्रम् उद्दिश्य सम्बोधनम् अकरोत्। तेन पुनरुक्तं
कारगिल विजय दिवस पर द्रास


- भारतीयसेनायाः योद्धा अनुपमः, कारगिले दत्तबलिदानं संततीः प्रेरयिष्यति : सेना प्रमुखः

द्रासः, 26 जुलाईमासः(हि.स.)।

रक्षामन्त्री राजनाथसिंह रविवासरे सप्तविंशतितमे कार्गिलविजयदिवसे द्रासस्थानात् राष्ट्रम् उद्दिश्य सम्बोधनम् अकरोत्। तेन पुनरुक्तं यत् ऑपरेशन सिन्दूर भारतस्य दृढसङ्कल्पं सामर्थ्यं च प्रकाशितवान् यत् भारतं पाकिस्तानस्य प्रत्येकस्य दुष्प्रवृत्तेः समुचितं प्रत्युत्तरं दातुं समर्थम् अस्ति। तेन उक्तं यत् पाकिस्तानेन सह यत्किमपि वार्तालापः भविष्यति सः केवलं पीओके विषयकेन्द्रितः भविष्यति। तेन बलपूर्वकं प्रतिपादितं यत् भारतः विकासमार्गे अग्रे गच्छति, परन्तु पाकिस्तानः आतङ्कवादस्य पोषणं करोति। तेन एतदपि प्रतिपादितं यत् यह दिल मांगे मोर इति भावना अधुना रक्षाक्षेत्रे आत्मनिर्भरतां विकसितभारत २०४७ इति लक्ष्यस्य प्राप्तिं च प्रति भारतस्य गमनं प्रेरयति।

कार्गिलविजयदिवससमारोहे सम्बोधनं कुर्वन् रक्षामन्त्री अवदत् यत् भारतस्य सार्वभौमत्वस्य विरुद्धं कृतस्य प्रत्येकस्य घृणितकर्मणः प्रत्युत्तरं तादृशेनैव दृढेन प्रकारेण दीयते यथा भारतीयरक्षाबलैः ऑपरेशन सिन्दूर माध्यमेन आतङ्कवादिभ्यः तेषां संरक्षकभ्यश्च अद्वितीयपराक्रमेण प्रत्युत्तरं दत्तम्। राजनाथसिंह बलपूर्वकम् अवदत् यत् पाकिस्ताने सेनायाः आतङ्कवादिनां च मध्ये कश्चन भेदः न अवशिष्टः, यतः पाकिस्तानेन आतङ्कवादः राज्यनीतेः अङ्गत्वेन स्वीकृतः। तेन उक्तं यत् पाकिस्तानस्य सेना न केवलम् आतङ्कवादिसङ्घटनाभ्यः आश्रयं ददाति, अपि तु ताभिः सह संयुक्तरूपेण कार्यमपि करोति। अतः ऑपरेशन सिन्दूरकाले भारतेन एतत् स्पष्टतया प्रदर्शितं यत् अधुना भारतः आतङ्कवादिनः तेषां पोषकसर्वकारांश्च पृथग् पृथक् न पश्यति।

सेनाप्रमुखः जनरल धीरजसेठ रविवासरे १९९९ तमे वर्षे कार्गिलयुद्धे वीरगतिं प्राप्तान् सैनिकान् श्रद्धाञ्जलिम् अर्पितवान्। तेन उक्तं यत् तेषां सर्वोच्चबलिदानं भाविपीढीः निरन्तरं प्रेरयिष्यति। तेन एतदपि प्रतिपादितं यत् भारतीयसेनायाः सैनिकाः विश्वस्य अन्येषां सर्वेषां सैनिकेभ्यः श्रेष्ठाः अनुपमाश्च सन्ति।

द्रासस्थिते कार्गिलयुद्धस्मारके विजयदिवससमारोहे सम्बोधनं कुर्वन् जनरल धीरजसेठ अवदत् यत् स्मारकस्य दर्शनात् तस्मै नूतना ऊर्जा महान् गौरवभावश्च अनुभूतः। तेन कार्गिलयुद्धे प्राणत्यागं कृतवतां सैनिकानां प्रति श्रद्धाञ्जलिः समर्पिता तथा तेषां परिवारजनानां त्यागस्य कृते गाढकृतज्ञता अपि व्यक्ता। जनरल धीरजसेठ भारतीयसैनिकानां साहसस्य व्यावसायिकदक्षतायाः अटूटकर्तव्यनिष्ठायाश्च प्रशंसां कुर्वन् अवदत् यत् भारतीयसेनायाः सैनिकः विश्वस्य कस्यापि सेनायाः सैनिकात् अनुपमः अस्ति।

वीरगतिं प्राप्तानां सैनिकानां शौर्यं स्मरन् तेन स्वीयस्य एव दलस्य एकेन सैनिकेन विरचिता कविता अपि साझा कृता। तेन उक्तं यत् सा कविता सर्वोच्चबलिदानस्य कर्तव्यनिष्ठायाः निःस्वार्थसमर्पणस्य च भावनां प्रकटयति।

राष्ट्रस्य प्रति सशस्त्रबलानां प्रतिबद्धतां पुनः उद्घोषयन् जनरल धीरजसेठ अवदत् यत् भारतीयसेना जनतायाः सह दृढतया तिष्ठति तथा राष्ट्रस्य सार्वभौमत्वस्य सुरक्षायाः प्रगतेश्च रक्षणाय पूर्णतया समर्पिता अस्ति। सशस्त्रबलेषु विश्वासं प्रकटयन् तेन उक्तं यत् ते राष्ट्रस्य गौरवं अक्षुण्णं स्थापयिष्यन्ति तथा आगामिषु वर्षेषु तिरङ्गध्वजः अधिकोन्नततया फहरिष्यति इति सुनिश्चितं करिष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani