एवरेस्टशिखरं जेतुम् असमस्य प्रथमबालया मिलितो मुख्यमंत्री हिमंतः, दत्ताः शुभकामनाः
गुवाहाटी, 26 जुलाईमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा रविवासरे सामाजिकमाध्यमेन सूचनां प्रदाय अवदत् यत् तेन शनिवासरे लोकसेवाभवने विश्वस्य उच्चतमशिखरं माउण्टएवरेस्टम् सफलतया आरोहितवत्याः असमस्य प्रथमायाः महिलायाः श्रीरूपामणिगडमहाभा
The images Shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 26 जुलाईमासः (हि.स.)।

असमस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा रविवासरे सामाजिकमाध्यमेन सूचनां प्रदाय अवदत् यत् तेन शनिवासरे लोकसेवाभवने विश्वस्य उच्चतमशिखरं माउण्टएवरेस्टम् सफलतया आरोहितवत्याः असमस्य प्रथमायाः महिलायाः श्रीरूपामणिगडमहाभागायाः सह भेंटः कृतः।

मुख्यमन्त्री अवदत् यत् श्रीरूपामणिगडमहाभागया स्वस्य ऐतिहासिकया उपलब्ध्या समग्रस्य असमस्य गौरवं वर्धितम् तथा राज्यस्य नारीशक्तिः नूतनासु उन्नतिषु प्रतिष्ठापिता। तेन तस्यै अस्याः उपलब्धेः कृते हार्दिक्याः शुभकामनाः प्रदत्ताः।

डॉ शर्मा विश्वासं व्यक्तवान् यत् श्रीरूपामणिः भविष्ये अपि राष्ट्रस्य असमस्य च यशः निरन्तरं वर्धयिष्यति। तेन तस्याः उज्ज्वलभविष्याय शुभकामनाः अपि व्यक्ताः।

----------

Hindusthan Samachar / Dheeraj Maithani