Enter your Email Address to subscribe to our newsletters

पटना, 26 जुलाईमासः (हि.स.)। केन्द्रीयमन्त्री जनता दल यूनाइटेड दलस्य वरिष्ठनेता च ललनसिंह रविवासरे बाढनगरे आयोजिते जनसंवादकार्यक्रमे अवदत् यत् बिहारराज्ये यदा कदापि नवीनजनपदानां गठनसम्बद्धः निर्णयः भविष्यति, तदा बाढनगरस्य जनपदत्वसम्बद्धः प्रस्तावः अपि विचाराधीनः भविष्यति। तेन उक्तं यत् राज्यसर्वकारः विकासस्य कार्यसूच्याः उपरि निरन्तरं कार्यं करोति तथा भविष्ये अपि एषा प्रक्रिया अविरता भविष्यति।
कार्यक्रमम् उद्दिश्य सम्बोधनं कुर्वन् ललनसिंह अवदत् यत् पूर्वमुख्यमन्त्रिणः नीतीशकुमारस्य नेतृत्वे बिहारराज्येन विकासक्षेत्रे उल्लेखनीया प्रगतिः साधिता। तेन विश्वासः व्यक्तीकृतः यत् राज्यसर्वकारः आगामिकाले अपि आधारभूतसंरचनायाः, शिक्षायाः, स्वास्थ्यस्य, जनकल्याणसम्बद्धकार्याणां च प्राथमिकतया संवर्धनं करिष्यति। अस्मिन्नेव प्रसङ्गे तेन बाढनगरस्य जनपदत्वस्य दीर्घकालप्रचलितायाः माग्धायाः उल्लेखं कृत्वा उक्तं यत् यदा राज्ये नवीनजनपदानां गठनप्रक्रिया प्रारभ्यते तदा बाढनगरसम्बद्धो निर्णयः अपि क्रियिष्यते।
स्वीयसम्बोधने ललनसिंह पूर्वमुख्यमन्त्रिणः नीतीशकुमारस्य राजनैतिकपरम्परायाः अपि उल्लेखम् अकरोत्। तेन उक्तं यत् पूर्वमुख्यमन्त्रिणः विकासोन्मुखचिन्तनस्य अग्रे नयनस्य कार्यं निशान्तकुमारः करिष्यति, अतः सः मन्त्रिमण्डले समावेशितः अस्ति। अस्य वक्तव्यस्य अनन्तरं राजनैतिकवर्तुलेषु विविधाः चर्चाः आरब्धाः।
जनसंवादकार्यक्रमस्य अवसरे महत्त्वपूर्णः क्षणः तदा अभवत् यदा मोकामाविधानसभाक्षेत्रस्य विधायकः अनन्तसिंह स्वपुत्रेण अभिषेकसिंहेन सह मञ्चम् आगतः। अस्मिन्नवसरे केन्द्रीयमन्त्री ललनसिंह अभिषेकसिंहं मालया अलङ्कृत्य तस्य स्वागतं आशीर्वादं च कृतवान्। कार्यक्रमे अभिषेकसिंह अवदत्, राजनैतिकपरम्परा वंशपरम्परया न लभ्यते, जनतायाः प्रेम्णा लभ्यते। तस्य एतत् वक्तव्यं प्रादेशिकराजनीतेः सन्दर्भे महत्त्वपूर्णः सङ्केतः इति मन्यते।
कार्यक्रमे बाढमोकामाक्षेत्रस्य अनेकाः सामाजिकराजनैतिककार्यकर्तारः उपस्थिताः आसन्। तेषु क्षेत्रस्य प्रमुखेषु राजनैतिकमुखेषु परिगणितः राजापरीक्षितः संजीवजी इत्यपि उपस्थितः आसीत्। तदतिरिक्तं स्वर्गीयबिहारकेसरी विवेकापहलवानस्य परिवारस्य सदस्याः अपि कार्यक्रमे सहभागिनः अभवन्। ललनसिंह तानपि मञ्चे मालया अलङ्कृत्य आशीर्वादं दत्तवान्। अस्य कारणात् तेषां स्नातकनिर्वाचनकोषात् विधानपरिषदः सदस्यपदस्य निर्वाचनपत्रं दातुं शक्यते इति चर्चा प्रचलति। तथापि स्वर्गीयविवेकापहलवानस्य परिवारस्य अन्यस्य वा कस्यचित् व्यक्तेः विधानपरिषदः सदस्यपदस्य निर्वाचनपत्रप्रदाने विषये जनता दल यूनाइटेड दलस्य पक्षतः कापि आधिकारिकघोषणा न कृता।-----------------
Hindusthan Samachar / Dheeraj Maithani