'मन की बात' जनभागितायाः सशक्तं माध्यमं, विकसित भारतस्य संकल्पाय अमिलत् नूतना ऊर्जा : नितिन नवीनः
-बांकीपुरे भाजपा कार्यकर्तृभिःसह नितिन नवीनोशृणोत् ‘मन की बात इत्येतं कार्यक्रमम् पटना, 26 जुलाईमासः (हि.स.)। भारतीयजनतापार्टीदलस्य राष्ट्रियाध्यक्षः नितिननवीन रविवासरे बांकीपुरविधानसभाक्षेत्रस्य कदमकुआंमण्डलस्थिते बरनवालभवने पक्षकार्यकर्तृभिः स
मन की बात सुनते भाजपा के राष्ट्रीय अध्यक्ष और अन्य


-बांकीपुरे भाजपा कार्यकर्तृभिःसह नितिन नवीनोशृणोत् ‘मन की बात इत्येतं कार्यक्रमम्

पटना, 26 जुलाईमासः (हि.स.)। भारतीयजनतापार्टीदलस्य राष्ट्रियाध्यक्षः नितिननवीन रविवासरे बांकीपुरविधानसभाक्षेत्रस्य कदमकुआंमण्डलस्थिते बरनवालभवने पक्षकार्यकर्तृभिः स्थानीयनागरिकैश्च सह प्रधानमन्त्रिणः नरेन्द्रमोदिनः मासिकस्य आकाशवाणीकार्यक्रमस्य मन की बात इत्यस्य १३६ तमसंस्करणस्य सामूहिकश्रवणम् अकरोत्। अस्मिन्नवसरे तेन उक्तं यत् मन की बात कार्यक्रमः देशस्य कोटिशः जनान् समानलक्ष्येन संयोजयन् सशक्तं जनान्दोलनं जातम् अस्ति, यत् प्रत्येकं नागरिकं विकसितभारतनिर्माणे सक्रियभागग्रहणाय प्रेरयति।

कार्यक्रमे भारतीयजनतापार्टीस्य राष्ट्रियमाध्यमसहप्रभारी विधानपरिषदः सदस्यः च संजयमयूख, विधानपरिषदः सदस्यः तरुणकुमारः, प्रदेशमाध्यमसहप्रभारी अमितप्रकाशबबलू, वार्डपार्षदः आशीषसिन्हा, मण्डलाध्यक्षः अनिकेतकुमारः इत्यादयः बहवः पक्षकार्यकर्तारः, स्थानीयनागरिकाः, गणमान्यजनाश्च उपस्थिताः आसन्।

कार्यक्रमस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी कार्गिलविजयदिवसस्य प्रसङ्गे राष्ट्रस्य वीरसैनिकानाम् अदम्यसाहसं सर्वोच्चबलिदानं च श्रद्धया ननाम। तेन आत्मनिर्भरभारतस्य वर्धमानरक्षासामर्थ्यम्, जलपर्यावरणसंरक्षणम्, क्रीडाशिक्षाक्षेत्रयोः युवानाम् उपलब्धयः, विज्ञानान्तरिक्षक्षेत्रयोः भारतस्य प्रगतिः, वोकल फोर लोकल अभियानम्, परम्परागतहस्तशिल्पखादीसंरक्षणम्, महिलासशक्तीकरणम्, जनभागीदाऱ्या राष्ट्रनिर्माणम् इत्यादिषु विविधविषयेषु देशवासिभिः सह संवादः कृतः।

कार्यक्रमानन्तरं माध्यमप्रतिनिधिभिः सह संवादं कुर्वन् नितिननवीन अवदत् यत् प्रधानमन्त्री मन की बात कार्यक्रमस्य माध्यमेन देशस्य विभिन्नभागेषु क्रियमाणानां नवोन्मेषाणां, स्थानीयप्रतिभानां, जनभागीदारीसम्बद्धप्रेरणादायकप्रयत्नानां च राष्ट्रियान्तरराष्ट्रीयस्तरे परिचयं कारितवान्। तेन उक्तं यत् एतेन समाजे सकारात्मककार्यं कुर्वतां जनानां नूतना ऊर्जा प्रोत्साहनं च प्राप्तम्।

तेन उक्तं यथा प्रधानमन्त्रिणा कैच द रेन अभियानस्य माध्यमेन जलसंरक्षणं जनान्दोलनरूपेण परिवर्तितम्, तथैव अस्मिन् समये खादी हस्तकरघोद्योगयोः प्रोत्साहनाय कृतम् आह्वानं देशस्य परम्परागतउद्योगानां शिल्पिनां च कृते नूतनाः सम्भावनाः आनयिष्यति। तेन विश्वासः व्यक्तीकृतः यत् आगामिकाले खादी हस्तकरघश्च भारतस्य सांस्कृतिकपरिचयं अधिकं सुदृढं करिष्यतः।

नितिननवीन अवदत् यत् बिहारसर्वकारस्य कार्यकालस्य शतदिनानि पूर्णानि जातानि। तस्मै पूर्णविश्वासः अस्ति यत् मुख्यमन्त्रिणः सम्राटचौधरिणः नेतृत्वे राज्ये खादी, हस्तकरघः, स्थानीयोत्पादाश्च प्रोत्साहनार्थं प्रभावशालिनः उपायाः स्वीक्रियन्ते, येन स्थानीयशिल्पिनः उद्यमिनश्च लाभान्विताः भविष्यन्ति।

तेन उक्तं यत् बांकीपुरस्थितैः स्वपरिवारजनैः, अभिभावकैः, लोहानीपुरक्षेत्रस्य जनैश्च सह उपविश्य मन की बात कार्यक्रमस्य श्रवणं तस्य कृते भावपूर्णः सुखदः च अनुभवः आसीत्, यतः अस्मिन्नेव क्षेत्रे तस्य बाल्यकालः व्यतीतः। तेन उक्तं यत् स्वपुरातनप्रदेशस्य जनैः सह अस्मिन् कार्यक्रमे सहभागित्वं तस्य कृते विशेषमहत्त्वं धारयति।

नितिननवीन अवदत् यत् अद्य भारतः क्रीडा, संस्कृतिः, विज्ञानम्, नवोन्मेषः च इत्येषु क्षेत्रेषु निरन्तरं नूतनकीर्तिमानान् स्थापयति। वोकल फोर लोकल इति भावनया युवशक्त्या च देशः आत्मनिर्भरभारतस्य विकसितभारतस्य च दिशि तीव्रगत्या अग्रे गच्छति। तेन विश्वासः व्यक्तीकृतः यत् भारतस्य युवा एव राष्ट्रस्य उज्ज्वलभविष्यस्य निर्माता भविष्यति तथा प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे विकसितभारतस्य सङ्कल्पस्य साकारकरणे सर्वाधिकमहत्त्वपूर्णां भूमिकां निर्वक्ष्यति।-------------

Hindusthan Samachar / Dheeraj Maithani