Enter your Email Address to subscribe to our newsletters

- बिहारे सीतामढ़ी अवकरं संशोध्य रिसाइकलिंग बेंच बनी वेस्ट टू वेल्थ इत्यस्य आदर्शः
पटना, 26 जुलाईमासः (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राटचौधरी रविवासरे पटनानगरस्य जक्कनपुरस्थिते भगवान् उत्सवहॉल इति स्थले आयोजिते प्रधानमन्त्रिणः नरेन्द्रमोदिनः मासिके आकाशवाणीकार्यक्रमे मन की बात इत्यस्य १३६ तमस्य संस्करणस्य प्रत्यक्षप्रसारणे सहभागी अभवत्। कार्यक्रमस्य अवसरे प्रधानमन्त्रिणा सीतामढीजनपदस्य प्लास्टिकअपशिष्टप्रबन्धनसम्बद्धप्रयत्नस्य प्रशंसा कृता इति राज्यस्य कृते गौरवसम्मानयोः विषयः अस्ति इति तेन उक्तम्।
आकाशवाण्यां प्रसारिते मन की बात कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी सीतामढीजनपदे एकवारप्रयुक्तप्लास्टिकअपशिष्टस्य पुनर्चक्रणेन निर्मीयमाणानां उपवेशनपीठिकानां प्रशंसां कृत्वा अवदत् यत् एषः प्रयासः पर्यावरणसंरक्षणस्य संसाधनानां सम्यगुपयोगस्य च उत्कृष्टम् उदाहरणम् अस्ति। तेन उक्तं यत् प्लास्टिकअपशिष्टेन निर्मिता एषा पीठिका न केवलं दृढा, स्थायिनी, सुखोपवेशनयोग्या च अस्ति, अपि तु पूर्णतया पर्यावरणानुकूला अपि अस्ति। एषः प्रयासः दर्शयति यत् रिड्यूस, रीयूज, रीसायकल इति केवलं घोषवाक्यं नास्ति, अपि तु जीवनशैल्याः महत्त्वपूर्णम् अङ्गम् अस्ति। तेन एतत् वेस्ट टू वेल्थ इति अवधारणायाः उत्कृष्टम् उदाहरणम् इति निरूपितम्।
कार्यक्रमे सहभागित्वानन्तरं मुख्यमन्त्री सम्राटचौधरी अवदत् यत् प्रधानमन्त्री स्वस्य मन की बात कार्यक्रमस्य माध्यमेन राष्ट्रस्य विभिन्नप्रदेशानां वैशिष्ट्यानि, नवोन्मेषान्, सकारात्मकप्रयत्नांश्च प्रकाशयन् देशवासिनः प्रेरयति प्रोत्साहयति च। तेन उक्तं यत् बिहारस्य समृद्धा सांस्कृतिकविरासत्, स्थानीयोत्पादाः, जनजीवनसम्बद्धविषयाश्च राष्ट्रियमञ्चे उल्लिखिताः इति समग्रराज्यस्य कृते गौरवसम्मानयोः विषयः अस्ति।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री अद्यतनकार्यक्रमे सीतामढीजनपदे पर्यावरणसंरक्षणदिशि क्रियमाणानां कार्याणां प्रशंसां कृत्वा बिहारस्य प्रयत्नानां राष्ट्रियपरिचयं दत्तवान्। एतस्य कृते तेन प्रधानमन्त्रिणः प्रति कृतज्ञता व्यक्तीकृता तथा उक्तं यत् एतत् प्रमाणयति यत् बिहारः पर्यावरणसंरक्षणे सततविकासे च गम्भीरतया कार्यं करोति।
सम्राटचौधरी अवदत् यत् राज्यसर्वकारः बिहारे वेस्ट टू वेल्थ इति अवधारणां अधिकं प्रोत्साहयिष्यति। एतदर्थं व्यापकस्तरे जनजागरूकताभियानं सञ्चालयिष्यते, येन अधिकाधिकाः जनाः अपशिष्टस्य वैज्ञानिकप्रबन्धनं पुनर्चक्रणं च स्वीकुर्युः। तेन उक्तं यत् पर्यावरणसंरक्षणं जनान्दोलनरूपेण परिवर्तयितुं सर्वकारः निरन्तरं प्रयत्नशीलः अस्ति।
मुख्यमन्त्री अवदत् यत् बिहारः स्वसमृद्धया सांस्कृतिकधरोहरया, कृष्युत्पादैः, लोकपरम्पराभिः, नवोन्मेषैश्च राष्ट्रस्य प्रगतौ महत्त्वपूर्णं योगदानं ददाति। प्रधानमन्त्रिणा एतेषां वैशिष्ट्यानां राज्यस्य सकारात्मकप्रयत्नानां च राष्ट्रियस्तरे परिचयः प्रदत्तः, येन प्रदेशवासिनाम् उत्साहः वर्धितः। अन्ते तेन बिहारस्य पक्षतः प्रधानमन्त्री नरेन्द्रमोदिनः प्रति हार्दिकं धन्यवादं कृतज्ञता च व्यक्तीकृता।--------------
Hindusthan Samachar / Dheeraj Maithani