Enter your Email Address to subscribe to our newsletters

– बांकीपुरात् एनडीए-समर्थितस्य अभ्यर्थिनः ऐतिहासिकविजयः सुनिश्चितः : एनडीए
पटनानगरम्, २६ जुलाईमासः (हि.स.)। बांकीपुर-विधानसभा-उपनिर्वाचने जनता-दल-यूनाइटेड-पक्षस्य व्यावसायिक-उद्योग-प्रकोष्ठस्य प्रचार-कार्यं चरमसीमाम् उपागतम्। अद्य प्रकोष्ठेन बांकीपुरे एनडीए-समर्थितस्य भारतीयजनतापक्षस्य अभ्यर्थिनः नीरजकुमार-सिन्हाया: पक्षे सघनं जनसम्पर्क-अभियानं सञ्चालितम्। ततः स्थानीय-धनागार-मार्ग-स्थिते अमर-प्रेम-भवने विशालसभा अपि आयोजिता। अस्यां सभायां भारतीयजनतापक्षस्य प्रदेशाध्यक्षः विधायकश्च सञ्जयसारावगी, जनता-दल-यूनाइटेड-पक्षस्य व्यावसायिक-उद्योग-प्रकोष्ठस्य प्रदेशाध्यक्षः विधायकश्च विशालसाहः, विधायकः पूर्वमन्त्री च राणा रणधीरसिंहः, जनता-दल-यूनाइटेड-पक्षस्य प्रदेशमहासचिवः चन्दनकुमारसिंहः, उत्तरप्रदेशस्य रामपुर-विधानसभायाः विधायकः आकाशसक्सेना च मुख्यरूपेण सम्बोधितवन्तः।
सभायां वक्तारः एकस्वरेण अवदन् यत् एषा विधानसभा-आसनं कृष्णबल्लभसहायः, महामायाप्रसादसिन्हा, ठाकुरप्रसादः, नवीनकिशोरप्रसादसिन्हा तथा भारतीय-जनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः इत्यादीनां कर्मयोगिनां कार्यक्षेत्रम् आसीत्। बांकीपुरस्य जनताः अस्य गौरवपूर्णस्य उत्तराधिकारस्य कदापि कलङ्कं न करिष्यति। अत्र कस्यचित् मायाविनः बहुरूपिणो वा अभ्यर्थिनः सफलता न भविष्यति।
एनडीए-नेतारः अवदन् यत् एतत् निर्वाचनं केवलम् एकस्य अभ्यर्थिनः नास्ति, अपितु एनडीए-सङ्घटनस्य प्रत्येकं कार्यकर्तुः निर्वाचनम् अस्ति। कार्यकर्तारः नरेन्द्रमोदी, नीतीशकुमारः, जीतनराममांझी, चिराग-पासवानः तथा उपेन्द्रकुशवाहः इव जनानां मध्ये गत्वा द्वयोः दशकयोः पूर्वस्य बांकीपुरस्य अद्यतनस्य बांकीपुरस्य च मध्ये विद्यमानं भेदं जनेभ्यः बोधयेयुः। बिहारात् आरभ्य केन्द्रसर्वकारपर्यन्तं एनडीए-सर्वकारस्य कार्याणि एतादृशानि सन्ति यत् कस्यापि कार्यकर्तुः कुत्रापि शिरः नमयितुं आवश्यकता नास्ति।
नेतारः पुनरपि उक्तवन्तः यत् एनडीए-वर्जितानां अन्येषां राजनैतिकदलानां समीपे विकासस्य न कश्चित् दृष्टिकोणः, न कार्यसूची, न च बिहारस्य विकासे किमपि योगदानम् अस्ति। विकसितबिहारस्य आत्मनिर्भरभारतस्य च निर्माणाय एनडीए एव एकमात्रं विकल्पः। अस्मात् निर्वाचनक्षेत्रात् एनडीए-समर्थितस्य भारतीयजनतापक्षस्य कर्मठस्य युव-अभ्यर्थिनः नीरजकुमारसिन्हायाः ऐतिहासिकविजयः सुनिश्चितः इति ते अवदन्।
अस्मिन् अवसरे वरिष्ठ-जनता-दल-यूनाइटेड-नेता अरविन्दकुमारनिरालः ‘सिन्दूरिया’, मुकेशजैनः, गणेशकानुः, कमलजीतसिंहः, जनता-दल-यूनाइटेड-पक्षस्य व्यावसायिक-उद्योग-प्रकोष्ठस्य पटना-महानगराध्यक्षः सुजितपाठकः, शिवगुप्तः, जगजीवनसिंहः, सचिन-जायसवालः, सन्तोषगुप्तः इत्यादयः बहु-संख्यकाः एनडीए-कार्यकर्तारः स्थानीय-व्यावसायिनश्च उपस्थिताः आसन्।
Hindusthan Samachar / अंशु गुप्ता